ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
स्वशब्दोन्मानाभ्यां च ॥ २२ ॥
इतश्चाणुरात्मा, यतः साक्षादेवास्याणुत्ववाची शब्दः श्रूयतेएषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन्प्राणः पञ्चधा संविवेश’ (मु. उ. ३ । १ । ९) इतिप्राणसम्बन्धाच्च जीव एवायमणुरभिहित इति गम्यतेतथोन्मानमपि जीवस्याणिमानं गमयतिबालाग्रशतभागस्य शतधा कल्पितस्य भागो जीवः विज्ञेयः’ (श्वे. उ. ५ । ९) इति; आराग्रमात्रो ह्यवरोऽपि दृष्टः’ (श्वे. उ. ५ । ८) इति उन्मानान्तरम् ॥ २२ ॥

चशब्दं योजयति -

इतश्चेति ।

स्वशब्दं व्याकुर्वन्नितःशब्दार्थं स्फुटयति -

यत इति ।

दुर्ज्ञातत्वधिया परमात्मैवाणुरिवाणुरुक्त इत्याशङ्क्याह -

प्राणेति ।

वृत्तिभेदेन पञ्चधा प्राणो यस्मिन्संनिविष्टः स प्राणाधारो जीव एवाणुर्वेदितव्य उच्यते । परस्याप्राणसम्बन्धादित्यर्थः ।

उन्मानं विभजते -

तथेति ।

स्वशब्दवदित्यर्थः । उद्धृतं मानमुन्मानम् , अत्यन्तापकृष्टपरिमाणमित्यर्थः ।

तदुदाहरति -

वालेति ।

आराग्रादुद्धृतं मानं मात्रा यस्य स जीवस्तथा ॥ २२ ॥