परिच्छिन्नस्यापि स्वभाववशाद्व्यापि कार्यं स्यादित्यन्यथोपपत्तिं दर्शयन्दृष्टान्तं व्याचष्टे -
यथेति ।
दार्ष्टान्तिकमाह -
एवमिति ।
देहव्यापकत्वमात्मसम्बन्धस्य सर्वाङ्गीणशैत्यज्ञाने शक्तत्वाद्युक्तं प्रादेशिकस्यात्मनो व्यापि कार्यमित्युक्तेऽर्थे युक्तिं ब्रुवन्नवशिष्टं सूत्रभागं व्याचष्टे -
त्वगिति ।
प्रादेशिकस्यात्मनः सम्बन्धः समस्तां त्वचं कथं व्याप्नुयात् , तत्राह -
त्वगात्मनोरिति ।
सम्बन्धस्य त्वगवयविनिष्ठत्वादवयविनश्चैकत्वात्तद्व्याप्तिरित्यर्थः ।
तथापि कथं त्वचः सर्वाङ्गीणशैत्यसङ्गतिः, तत्राह -
त्वक्चेति ।
अर्थापत्तेरन्यथाऽप्युपपत्तिं दृष्टान्तेनोक्तामुपसंहर्तुमितिशब्दः ॥ २३ ॥