ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
कथं पुनर्गुणो गुणिव्यतिरेकेणान्यत्र वर्तेत ? हि पटस्य शुक्लो गुणः पटव्यतिरेकेणान्यत्र वर्तमानो दृश्यतेप्रदीपप्रभावद्भवेदिति चेत् , ; तस्या अपि द्रव्यत्वाभ्युपगमात्निबिडावयवं हि तेजोद्रव्यं प्रदीपः, प्रविरलावयवं तु तेजोद्रव्यमेव प्रभा इति, अत उत्तरं पठति

सूत्रान्तरमवतारयितुमाक्षिपति -

कथमिति ।

चैतन्यं गुणत्वान्न गुणिनोऽन्यत्रेत्यत्र दृष्टान्तमाह -

नहीति ।

यथा दीपस्य गुणोऽपि प्रभा तदतिरेकेणाशेषमपवरकोदरं व्याप्नोति तथा चैतन्यमात्मनो गुणोऽपि तमतिक्रम्य सर्वं देहं व्याप्नुयादतो व्यभिचारान्नानुमेति शङ्कते -

प्रदीपेति ।

प्रभाया गुणत्वाभावान्नैवमित्याह -

नेति ।

द्वयोरपि तेजोद्रव्यत्वे कथमवान्तरभेदः, तत्राह -

निबिडेति ।

गुणत्वस्य गन्धे व्यभिचारमाह -

अत इति ।