ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
तथा च दर्शयति ॥ २७ ॥
हृदयायतनत्वमणुपरिमाणत्वं आत्मनः अभिधाय तस्यैव लोमभ्य नखाग्रेभ्यः’ (छा. उ. ८ । ८ । १) इति चैतन्येन गुणेन समस्तशरीरव्यापित्वं दर्शयति ॥ २७ ॥

गन्धस्य गुणिनं विनापि वृत्तेश्चैतन्यस्यापि तद्योगादणुत्वेऽपि देहव्यापिकार्यसिद्धिरित्युक्तम् । इदानीं चैतन्येनैवात्मनो देहव्याप्तिरित्यत्र श्रुतिमाह -

तथाचेति ।