ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् ॥ २९ ॥
तुशब्दः पक्षं व्यावर्तयतिनैतदस्तिअणुरात्मेतिउत्पत्त्यश्रवणात् परस्यैव तु ब्रह्मणः प्रवेशश्रवणात् तादात्म्योपदेशाच्च परमेव ब्रह्म जीव इत्युक्तम्परमेव चेद्ब्रह्म जीवः, तस्माद्यावत्परं ब्रह्म तावानेव जीवो भवितुमर्हतिपरस्य ब्रह्मणो विभुत्वमाम्नातम्तस्माद्विभुर्जीवःतथा वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु’ (बृ. उ. ४ । ४ । २२) इत्येवंजातीयका जीवविषया विभुत्ववादाः श्रौताः स्मार्ताश्च समर्थिता भवन्ति अणोर्जीवस्य सकलशरीरगता वेदनोपपद्यतेत्वक्सम्बन्धात्स्यादिति चेत् , ; कण्टकतोदनेऽपि सकलशरीरगतैव वेदना प्रसज्येतत्वक्कण्टकयोर्हि संयोगः कृत्स्नायां त्वचि वर्ततेत्वक्च कृत्स्नशरीरव्यापिनीतिपादतल एव तु कण्टकनुन्ना वेदनां प्रतिलभन्ते अणोर्गुणव्याप्तिरुपपद्यते, गुणस्य गुणिदेशत्वात्गुणत्वमेव हि गुणिनमनाश्रित्य गुणस्य हीयेतप्रदीपप्रभायाश्च द्रव्यान्तरत्वं व्याख्यातम्गन्धोऽपि गुणत्वाभ्युपगमात्साश्रय एव सञ्चरितुमर्हति, अन्यथा गुणत्वहानिप्रसङ्गात्; तथा चोक्तं द्वैपायनेन — ‘उपलभ्याप्सु चेद्गन्धं केचिद्ब्रूयुरनैपुणाःपृथिव्यामेव तं विद्यादपो वायुं संश्रितम्इतियदि चैतन्यं जीवस्य समस्तं शरीरं व्याप्नुयात् , नाणुर्जीवः स्यात्; चैतन्यमेव हि अस्य स्वरूपम् , अग्नेरिवौष्ण्यप्रकाशौनात्र गुणगुणिविभागो विद्यत इतिशरीरपरिमाणत्वं प्रत्याख्यातम्परिशेषाद्विभुर्जीवः

तदक्षरार्थमाह -

तुशब्द इति ।

पक्षमनुभाष्य तद्व्यावर्तनं प्रतिजानीते -

नैतदिति ।

तत्र हेत्वर्थमुक्तं स्मारयति -

उत्पत्तीति ।

कार्यकारणत्वानुपपत्तौ सत्यां सामानाधिकरण्यश्रुतेश्चेति तृतीयहेत्वर्थः ।

जीवब्रह्मणोरभेदेऽपि प्रकृते किं जातमित्याशङ्क्य जीवो महान्ब्रह्माभिन्नत्वात्तद्वदित्याह -

परमिति ।

दृष्टान्तस्य साध्यवैकल्यं 'सत्यं ज्ञानम्' इत्यादिश्रुत्या निराचष्टे -

परस्येति ।

अनुमानफलमाह -

तस्मादिति ।

जीवस्य विभुत्वे तन्महत्त्ववादिश्रुतिस्मृतिवाक्यान्यपि मुख्यार्थानि भवन्तीत्यनुमानानुग्राह्यमागममाह -

तथाचेति ।

नित्यः सर्वनतः स्थाणुरित्यादयः स्मार्तवादाः । तत्त्वमस्यादिप्रधानवाक्याज्जीवस्य महत्त्वं तदणुत्वार्थगुणभूतवाक्यानां श्रुतिलिङ्गानां च तद्विरोधादौपाधिकार्थत्वसिद्धेरिति भावः ।

किञ्च ‘अर्थवादवाक्यानां लौकिकादपि न्यायाद्दौर्बल्यम्’ इति न्यायेन सर्वदेहव्यापिशैत्योपलम्भान्यथानुपपत्तिनिमित्तमहत्त्वेनाणुत्वश्रुतीनां बाधः स्यादित्याह -

नचेति ।

त्वगात्मसम्बन्धस्य त्वग्व्यापित्वात्त्वचश्च सर्वदेहव्याप्तेस्तद्वारा जीवस्याणोरपि व्यापिकार्यमित्युक्तं शङ्कते -

त्वगिति ।

अतिप्रसक्त्या प्रत्याह -

नेति ।

पादतलमात्रे कण्टकस्य संयुक्तत्वात्कुतोऽन्यत्र वेदनेत्याशङ्क्याह -

त्वगिति ।

तथापि कथं देहमात्रे वेदनाधीः, तत्राह -

त्वक्चेति ।

अतिप्रसङ्गमुपसंहर्तुमितिशब्दः । अस्तु देहमात्रे वेदनाधीरित्यतिप्रसङ्गस्येष्टत्वमाशङ्क्याह -

पादेति ।

यदुक्तं गुणाद्वेति, तत्राह -

नचेति ।

हेतुं व्यतिरेकेण स्फोरयति -

गुणत्वमिति ।

लोकवदित्युक्तं प्रत्याह -

प्रदीपेति ।

यत्तु व्यतिरेको गन्धवदिति, तत्राह -

गन्धोऽपीति ।

निराश्रयस्यैव सञ्चरणं तस्योक्तमित्याशङ्क्याह -

अन्यथेति ।

गन्धस्याश्रयनियमे युक्तिमुक्त्वा वृद्धसंमतिमाह -

तथा चेति ।

न चाध्यक्षविरुद्धौ युक्त्यागमौ, तेनाश्रयशून्यत्वाग्रहान्महतां च त्रसरेणूनामनुद्भूतरूपस्पर्शानामागतिरिति स्फुटोपलम्भसम्भवान्मूलद्रव्ये चाविशेषोऽवयवान्तरयोगादिति भावः ।

चैतन्यस्य गुणत्वमुपेत्य गुणस्य गुणिनं विनाऽन्यत्रागतेः सर्वदेहव्यापिकार्यायोगान्नाणुर्जीव इत्युक्तम् । इदानीं न गुणत्वमपि तस्येत्याह -

यदीति ।

चैतन्यव्याप्तौ जीवाणुत्वासिद्धिं ब्रुवतो वैयधिकरण्यमित्याह -

चैतन्यमिति ।

औष्ण्यप्रकाशयोर्गुणत्वाच्चैतन्यस्य स्वरूपत्वे नोदाहरणतेत्याशङ्क्य रूपादिवद्गुणगुणित्वाभावान्मैवमित्याह -

नात्रेति ।

औष्ण्यप्रकाशावग्निश्च सप्तम्यर्थः । औष्ण्याद्यतिरिक्ताग्निस्वरूपाभावं हेतुं कर्तुमितिशब्दः । जीवस्याणुत्वं न चेदस्तु मध्यमपरिमाणत्वं, नेत्याह -

शरीरेति ।

परिमाणद्वयायोगे परिशिष्टमाह -

परिशेषादिति ।