ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
स्यादेतत्यदि बुद्धिगुणसारत्वादात्मनः संसारित्वं कल्प्येत, ततो बुद्ध्यात्मनोर्भिन्नयोः संयोगावसानमवश्यंभावीत्यतो बुद्धिवियोगे सति आत्मनो विभक्तस्यानालक्ष्यत्वादसत्त्वमसंसारित्वं वा प्रसज्येतेतिअत उत्तरं पठति

सूत्रन्तरनिरस्या शङ्कामाह -

स्यादेतदिति ।

कथमसत्त्वं स्वरूपेण सत्त्वादित्याशङ्क्याह -

असंसारित्वं वेति ।

सूत्रमवतारयति -

अत इति ।