तत्र दृष्टान्तं व्याचष्टे -
यथेति ।
पुंस्त्वं पुरुषस्य प्रजोत्पादनसामर्थ्यम् । आदिशब्देन स्रियाः स्त्रीत्वं बीजस्याङ्कुरजनकत्वमित्यादि गृहीतम् । बाल्यादिष्वित्यादिपदेनावस्थाविशेषा गृह्यन्ते । यौवनादिष्वित्यत्रापि, स एवादिशब्दार्थः ।
कस्मादविद्यमानवदिष्टानामाविर्भावः, अविद्यमानानामेव पुनरुत्पत्तिः किं न स्यात् , तत्राह -
नेति ।
तैलकलुषितबीजादिग्रहार्थमादिपदम् । एतेन तुशब्दो व्याख्यातः ।
'अस्य सत' इति दार्ष्टान्तिकं व्याचष्टे -
एवमिति ।
अभिव्यक्तियोगादिति व्याकरोति -
एवं हीति ।
तदेव व्यतिरेकतः स्फोरयति -
नहीति ।
कारणं विनाऽपि कार्यं स्यादित्यतिप्रसङ्गः । स्वापे बीजात्मना सतो बुद्धियोगस्य प्रबोधे व्यक्तिरित्यत्र मानमाह -
दर्शयतीति ।
न विदुरित्यविद्यात्मकबीजसत्त्वोक्तिः । तत्कृतत्वं स्वापादुत्थानस्य कथयति -
त इति ।
पूर्वबोधः सप्तम्यर्थः ।
स्वापे लये च बुद्धियोगस्य बीजात्मनाऽवस्थाने फलितमाह -
तस्मादिति ॥ ३१ ॥