ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वान्यथा ॥ ३२ ॥
तच्चात्मन उपाधिभूतम् — अन्तःकरणं मनो बुद्धिर्विज्ञानं चित्तमिति च अनेकधा तत्र तत्राभिलप्यते । क्वचिच्च वृत्तिविभागेन — संशयादिवृत्तिकं मन इत्युच्यते, निश्चयादिवृत्तिकं बुद्धिरिति । तच्चैवंभूतमन्तःकरणमवश्यमस्तीत्यभ्युपगन्तव्यम् , अन्यथा ह्यनभ्युपगम्यमाने तस्मिन्नित्योपलब्ध्यनुपलब्धिप्रसङ्गः स्यात् — आत्मेन्द्रियविषयाणामुपलब्धिसाधनानां सन्निधाने सति नित्यमेवोपलब्धिः प्रसज्येत । अथ सत्यपि हेतुसमवधाने फलाभावः, ततो नित्यमेवानुपलब्धिः प्रसज्येत । न चैवं दृश्यते । अथवा अन्यतरस्यात्मन इन्द्रियस्य वा शक्तिप्रतिबन्धोऽभ्युपगन्तव्यः । न च आत्मनः शक्तिप्रतिबन्धः सम्भवति, अविक्रियत्वात् । नापि इन्द्रियस्य । न हि तस्य पूर्वोत्तरयोः क्षणयोरप्रतिबद्धशक्तिकस्य सतोऽकस्माच्छक्तिः प्रतिबध्येत । तस्मात् यस्यावधानानवधानाभ्यामुपलब्ध्यनुपलब्धी भवतः, तन्मनः । तथा च श्रुतिः — ‘अन्यत्रमना अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषम्’ (बृ. उ. १ । ५ । ३) इति, ‘मनसा ह्येव पश्यति मनसा शृणोति’ (बृ. उ. १ । ५ । ३) इति च; कामादयश्चास्य वृत्तय इति दर्शयति — ‘कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव’ (बृ. उ. १ । ५ । ३) इति । तस्माद्युक्तमेतत् — तद्गुणसारत्वात्तद्व्यपदेश इति ॥ ३२ ॥

तद्व्याख्यातुमन्तःकरणगतानवान्तरभेदानाह -

तच्चेति ।

तत्रतत्र ।

‘मनसा ह्येव पश्यति मनसा श्रृणोति', ‘बुद्धेर्गुणेनात्मगुणेन चैव', ‘बुद्धिश्च न विचेष्टते', ‘विज्ञानेन विज्ञानमादाय', ‘विज्ञानं यज्ञं तनुते', ‘चेतसा वेदितव्यः’ इत्यादिप्रदेशेष्वित्यर्थः ।

एकमेवान्तःकरणं कथमनेकधोच्यते, तत्राह -

क्वचिच्चेति ।

अभिमानप्रधानोऽहङ्कारो विज्ञानम् । चिदाकारप्रधानं चित्तम् । अथ यथोक्तमन्तःकरणमेव नास्ति । नच श्रुत्या तदस्तित्वं, तत्प्रामाण्येऽपि केषाञ्चिद्विसंवादात् , तत्राह -

तच्चेति ।

तत्र हेतुत्वेन सूत्रवयवं व्याकरोति -

अन्यथेति ।

नित्योपलब्धिप्रसङ्गं प्रकटयति -

आत्मेति ।

कारणे सति कार्यं भवत्येवेत्यनियमान्न नित्योपलब्धिप्रसक्तिरिति शङ्कते -

अथेति ।

तर्हि नित्यमेवानुपलब्धिः स्यादपेक्षणीयान्तराभावादित्याह -

तत इति ।

प्रसङ्गस्येष्टत्वमाशङ्क्याह -

नचेति ।

आत्मेन्द्रियार्थसांनिध्येऽपि कदाचिदेव ज्ञानोदयादन्तःकरणमस्तीत्युक्तम् । इदानीं तदनुपगमे दोषान्तरापत्तेरपि तदस्तीति ब्रुवन्नन्यतरनिथमो वेत्येतद्योजयति -

अथवेति ।

अन्यतरस्य शक्तिप्रतिबन्धे का हानिः ; तत्राह -

नचेति ।

अवधानमनुभवितुं स्मर्तुं वा वाञ्छा । नच साऽऽत्मनो धर्मः, तस्याविक्रियत्वात् । नापीन्द्रियाणामन्धादीनामेकैकेन्द्रियाभावेऽपि तद्दर्शनादान्तरत्वाच्च बाह्येन्द्रियधर्मत्वायोगात्तेन परिशेषाद्यस्यावधानानवधाने तदन्तःकरणमस्तीत्याह -

तस्मादिति ।

अनुबुभूषा साश्रया, गुणत्वात् , रूपवदित्यनुमानात्तदधिकरणमन्तःकरणं परिशेषतो लब्धमिति भावः ।

न केवलमन्तःकरणमौपपत्तिकं श्रौतमपीत्याह -

तथा चेति ।

मनः स्वग्राह्यजातिमद्विशेषगुणाधिकरणं, प्रत्यक्षज्ञानकरणत्वात् , चक्षुर्वदित्यभिप्रेत्याह -

कामादयश्चेति ।

बुद्धिसद्भावस्य मानयुक्तिसिद्धत्वे फलितमाह -

तस्मादिति ॥ ३२ ॥