ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
कर्ता शास्त्रार्थवत्त्वात् ॥ ३३ ॥
तद्गुणसारत्वाधिकारेणैवापरोऽपि जीवधर्मः प्रपञ्च्यतेकर्ता अयं जीवः स्यात्कस्मात् ? शास्त्रार्थवत्त्वात्एवं यजेत’ ‘जुहुयात्’ ‘दद्यात्इत्येवंविधं विधिशास्त्रमर्थवद्भवतिअन्यथा तदनर्थकं स्यात्तद्धि कर्तुः सतः कर्तव्यविशेषमुपदिशति असति कर्तृत्वे तदुपपद्येततथेदमपि शास्त्रमर्थवद्भवतिएष हि द्रष्टा श्रोता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः’ (प्र. उ. ४ । ९) इति ॥ ३३ ॥

स्वाभाविकमणुत्वं पराणुद्य वस्तुतो महत्त्वं चैतन्यादीषद्बहिष्ठं प्रतिष्ठापितम् । इदानीं ततोऽपि बहिष्ठं कर्तृत्वं बुद्धिकर्तृत्वव्यावर्तनेनात्मनि साधयति -

कर्तेति ।