ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
उपलब्धिवदनियमः ॥ ३७ ॥
यथायमात्मोपलब्धिं प्रति स्वतन्त्रोऽपि अनियमेनेष्टमनिष्टं उपलभते, एवमनियमेनैवेष्टमनिष्टं सम्पादयिष्यतिउपलब्धावप्यस्वातन्त्र्यम् , उपलब्धिहेतूपादानोपलम्भादिति चेत् , विषयप्रकल्पनामात्रप्रयोजनत्वादुपलब्धिहेतूनाम्उपलब्धौ तु अनन्यापेक्षत्वमात्मनः, चैतन्ययोगात्अपि अर्थक्रियायामपि नात्यन्तमात्मनः स्वातन्त्र्यमस्ति, देशकालनिमित्तविशेषापेक्षत्वात् सहायापेक्षस्य कर्तुः कर्तृत्वं निवर्ततेभवति ह्येधोदकाद्यपेक्षस्यापि पक्तुः पक्तृत्वम्सहकारिवैचित्र्याच्च इष्टानिष्टार्थक्रियायामनियमेन प्रवृत्तिरात्मनो विरुध्यते ॥ ३७ ॥

सत्यपि स्वातन्त्र्ये स्यादनियता प्रवृत्तिरिति सूत्रं व्याकुर्वन्परिहरति -

यथेति ।

दृष्टान्ते विवदमानः सन्नाह -

उपलब्धाविति ।

चक्षुरादीनां विषयोपनायकत्वात्तदुपलब्धौ चात्मनश्चेतनत्वेन स्वातन्त्र्यादुदाहरणसिद्धिरित्याह -

नेत्यादिना ।

विषयोपनयनद्वारा तज्ज्ञाने करणापेक्षाध्रौव्यान्नात्मनः स्वतन्त्र्यमित्याशङ्क्याह -

अपि चेति ।

इतश्च दृष्टान्तदार्ष्टान्तिकयोर्न वैषम्यमिति यावत् । उपलब्धाविवेत्यपेरर्थः ।

देशाद्यपेक्षायां लक्षणाभावादकर्तृत्वं स्यादित्याशङ्क्याह -

नचेति ।

तत्र हेतुमाह -

भवतीति ।

यदुक्तं धीपूर्वकारिणो नानियता प्रवृत्तिरिति, तत्राह -

सहकारीति ।

कर्ता हि करणादीनि कारकान्तराणि प्रयुङ्क्ते, न तैरयं प्रयुज्यते, तेन तस्य स्वातन्त्र्यं, न, कारकान्तरानपेक्षत्वात् , क्वापि तथा स्वातन्त्र्यायोगात् । तथाचायमदृष्टवशादिष्टमेव प्रेप्सुस्तदुपायभ्रमादनिष्टहेतुमनुतिष्ठन्ननिष्टमाप्नुयादित्यनियता प्रवृत्तिः, कर्तृत्वनियमश्चेत्यर्थः ॥ ३७ ॥