सत्यपि स्वातन्त्र्ये स्यादनियता प्रवृत्तिरिति सूत्रं व्याकुर्वन्परिहरति -
यथेति ।
दृष्टान्ते विवदमानः सन्नाह -
उपलब्धाविति ।
चक्षुरादीनां विषयोपनायकत्वात्तदुपलब्धौ चात्मनश्चेतनत्वेन स्वातन्त्र्यादुदाहरणसिद्धिरित्याह -
नेत्यादिना ।
विषयोपनयनद्वारा तज्ज्ञाने करणापेक्षाध्रौव्यान्नात्मनः स्वतन्त्र्यमित्याशङ्क्याह -
अपि चेति ।
इतश्च दृष्टान्तदार्ष्टान्तिकयोर्न वैषम्यमिति यावत् । उपलब्धाविवेत्यपेरर्थः ।
देशाद्यपेक्षायां लक्षणाभावादकर्तृत्वं स्यादित्याशङ्क्याह -
नचेति ।
तत्र हेतुमाह -
भवतीति ।
यदुक्तं धीपूर्वकारिणो नानियता प्रवृत्तिरिति, तत्राह -
सहकारीति ।
कर्ता हि करणादीनि कारकान्तराणि प्रयुङ्क्ते, न तैरयं प्रयुज्यते, तेन तस्य स्वातन्त्र्यं, न, कारकान्तरानपेक्षत्वात् , क्वापि तथा स्वातन्त्र्यायोगात् । तथाचायमदृष्टवशादिष्टमेव प्रेप्सुस्तदुपायभ्रमादनिष्टहेतुमनुतिष्ठन्ननिष्टमाप्नुयादित्यनियता प्रवृत्तिः, कर्तृत्वनियमश्चेत्यर्थः ॥ ३७ ॥