ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
शक्तिविपर्ययात् ॥ ३८ ॥
इतश्च विज्ञानव्यतिरिक्तो जीवः कर्ता भवितुमर्हतियदि पुनर्विज्ञानशब्दवाच्या बुद्धिरेव कर्त्री स्यात् , ततः शक्तिविपर्ययः स्यात्करणशक्तिर्बुद्धेर्हीयेत, कर्तृशक्तिश्चापद्येतसत्यां बुद्धेः कर्तृशक्तौ, तस्या एव अहंप्रत्ययविषयत्वमभ्युपगन्तव्यम् , अहंकारपूर्विकाया एव प्रवृत्तेः सर्वत्र दर्शनात् — ‘अहं गच्छामि, अहमागच्छामि, अहं भुञ्जे, अहं पिबामिइति तस्याश्च कर्तृशक्तियुक्तायाः सर्वार्थकारि करणमन्यत्कल्पयितव्यम्शक्तोऽपि हि सन् कर्ता करणमुपादाय क्रियासु प्रवर्तमानो दृश्यत इतिततश्च संज्ञामात्रे विवादः स्यात् , वस्तुभेदः कश्चित् , करणव्यतिरिक्तस्य कर्तृत्वाभ्युपगमात् ॥ ३८ ॥

बुद्धेरेव कर्तृत्वे कारकविभक्तिविपर्ययो ‘न चेत्’ इत्यत्रोक्तः । सम्प्रति तच्छक्तिविपर्ययमाह -

शक्तीति ।