ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
शक्तिविपर्ययात् ॥ ३८ ॥
इतश्च विज्ञानव्यतिरिक्तो जीवः कर्ता भवितुमर्हतियदि पुनर्विज्ञानशब्दवाच्या बुद्धिरेव कर्त्री स्यात् , ततः शक्तिविपर्ययः स्यात्करणशक्तिर्बुद्धेर्हीयेत, कर्तृशक्तिश्चापद्येतसत्यां बुद्धेः कर्तृशक्तौ, तस्या एव अहंप्रत्ययविषयत्वमभ्युपगन्तव्यम् , अहंकारपूर्विकाया एव प्रवृत्तेः सर्वत्र दर्शनात् — ‘अहं गच्छामि, अहमागच्छामि, अहं भुञ्जे, अहं पिबामिइति तस्याश्च कर्तृशक्तियुक्तायाः सर्वार्थकारि करणमन्यत्कल्पयितव्यम्शक्तोऽपि हि सन् कर्ता करणमुपादाय क्रियासु प्रवर्तमानो दृश्यत इतिततश्च संज्ञामात्रे विवादः स्यात् , वस्तुभेदः कश्चित् , करणव्यतिरिक्तस्य कर्तृत्वाभ्युपगमात् ॥ ३८ ॥

सूत्रं व्याख्यातुं प्रतिज्ञां व्याकरोति -

इतश्चेति ।

हेतुमेव व्यतिरेकद्वारा विवृणोति -

यदीति ।

शक्तिविपर्ययमुदाहरति -

करणेति ।

बुद्ध्यतिरिक्तकर्त्रभावादित्यर्थः ।

बुद्धेरस्तु कर्तृशक्तिः, तत्राह -

सत्यां चेति ।

कर्तृत्वे बुद्धेरहन्धीविषयत्वेनात्मत्वं किमित्युपेयं, तत्राह -

अहङ्कारेति ।

अन्तःकरणाधिष्ठातुरेवात्मत्वात्कुतो बुद्धेरेवात्मत्वं, तत्राह -

तस्याश्चेति ।

कर्तुः स्वयमेव शक्तेर्न करणापेक्षेत्याशङ्क्याह -

शक्तोऽपि हीति ।

लोकवदिहापि कर्तुरपेक्षितमेव करणमिति वक्तुमितिशब्दः । अस्तु तर्हि कर्त्र्या बुद्धेरन्यदेव करणं, तत्राह -

ततश्चेति ॥ ३८ ॥