ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
यथा च तक्षोभयथा ॥ ४० ॥
तदेतदाहाचार्यः — ‘यथा तक्षोभयथाइतित्वर्थे अयं चः पठितःनैवं मन्तव्यम्स्वाभाविकमेवात्मनः कर्तृत्वम् , अग्नेरिवौष्ण्यमितियथा तु तक्षा लोके वास्यादिकरणहस्तः कर्ता दुःखी भवति, एव स्वगृहं प्राप्तो विमुक्तवास्यादिकरणः स्वस्थो निर्वृतो निर्व्यापारः सुखी भवतिएवमविद्याप्रत्युपस्थापितद्वैतसम्पृक्त आत्मा स्वप्नजागरितावस्थयोः कर्ता दुःखी भवति, सः तच्छ्रमापनुत्तये स्वमात्मानं परं ब्रह्म प्रविश्य विमुक्तकार्यकरणसङ्घातोऽकर्ता सुखी भवति सम्प्रसादावस्थायाम्तथा मुक्त्यवस्थायामप्यविद्याध्वान्तं विद्याप्रदीपेन विधूय आत्मैव केवलो निर्वृतः सुखी भवतितक्षदृष्टान्तश्चैतावतांशेन द्रष्टव्यःतक्षा हि विशिष्टेषु तक्षणादिव्यापारेष्वपेक्ष्यैव प्रतिनियतानि करणानि वास्यादीनि कर्ता भवति, स्वशरीरेण तु अकर्तैवएवमयमात्मा सर्वव्यापारेष्वपेक्ष्यैव मनआदीनि करणानि कर्ता भवति, स्वात्मना तु अकर्तैवेति तु आत्मनस्तक्ष्ण इवावयवाः सन्ति, यैः हस्तादिभिरिव वास्यादीनि तक्षा, मनआदीनि करणान्यात्मोपाददीत न्यस्येद्वा

उक्तेऽर्थे सूत्रमवतारयति -

तदेतदिति ।

तदक्षराणि व्याकरोति -

त्वर्थे चेति ।

चकारोऽवधारणे ।

तुशब्दार्थमेव स्फोरयति -

नैवमिति ।

तत्र दृष्टान्तं व्याचक्षाणो हेतुमाह -

यथेति ।

अन्यैरप्रेर्यत्वं स्वस्थत्वम् । मानसप्रयत्नराहित्यं निर्वृतत्वम् । कायचेष्टाशून्यत्वं निर्व्यापारत्वम् । बुद्ध्यादिसम्पिण्डितैकद्रव्ये सत्येव जागरादौ क्रियादर्शनादसति तस्मिन्केवलात्मनि स्वापादौ तददर्शनाद्विशिष्टस्य क्रियाकारणत्वम् । तत्रापि निमित्तादुपादानस्य कार्यान्वयित्वेनान्तरङ्गत्वादुपादानत्वमन्वयव्यतिरेकाभ्यामुक्तन्यायवद्भ्यां ब्रह्मात्मत्वशास्त्रोपबृंहिताभ्यां लभ्यमिति भावः ।

सम्प्रसादे कर्तृत्वरहितस्यापि जागरादौ कर्तृत्वं चेन्मुक्तावपि तथैव स्यादित्याशङ्क्याह -

तथेति ।

तत्र कारणसद्भावाद्युक्तं कर्तृत्वम् , इह तदभावान्नेेति भावः ।

यथा कर्तृत्वादिशक्तियुक्तस्य तक्ष्णो वास्यादिप्रेरकत्वेन कर्तृत्वमेवमिहापि स्याद्दृष्टान्तदार्ष्टान्तिकयोस्तुल्यत्वादित्याशङ्क्याह -

तक्षेति ।

इतोऽपि विवक्षितांशेन साम्यं न त्वत्यन्तमित्याह -

न त्विति ।