ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
यथा च तक्षोभयथा ॥ ४० ॥
यत्तूक्तम् , शास्त्रार्थवत्त्वादिभिर्हेतुभिः स्वाभाविकमात्मनः कर्तृत्वमिति, तन्न — विधिशास्त्रं तावद्यथाप्राप्तं कर्तृत्वमुपादाय कर्तव्यविशेषमुपदिशति, न कर्तृत्वमात्मनः प्रतिपादयति । न च स्वाभाविकमस्य कर्तृत्वमस्ति, ब्रह्मात्मत्वोपदेशात् — इत्यवोचाम । तस्मादविद्याकृतं कर्तृत्वमुपादाय विधिशास्त्रं प्रवर्तिष्यते । कर्ता विज्ञानात्मा पुरुषः — इत्येवंजातीयकमपि शास्त्रमनुवादरूपत्वाद्यथाप्राप्तमेवाविद्याकृतं कर्तृत्वमनुवदिष्यति । एतेन विहारोपादाने परिहृते, तयोरप्यनुवादरूपत्वात् । ननु सन्ध्ये स्थाने प्रसुप्तेषु करणेषु स्वे शरीरे यथाकामं परिवर्तते — इति विहार उपदिश्यमानः केवलस्यात्मनः कर्तृत्वमावहति । तथोपादानेऽपि ‘तदेषां प्राणानां विज्ञानेन विज्ञानमादाय’ (बृ. उ. २ । १ । १७) इति करणेषु कर्मकरणविभक्ती श्रूयमाणे केवलस्यात्मनः कर्तृत्वं गमयत इति । अत्रोच्यते — न तावत्सन्ध्ये स्थानेऽत्यन्तमात्मनः करणविरमणमस्ति, ‘सधीः स्वप्नो भूत्वेमं लोकमतिक्रामति’ (बृ. उ. ४ । ३ । ७) इति तत्रापि धीसम्बन्धश्रवणात् । तथा च स्मरन्ति — ‘इन्द्रियाणामुपरमे मनोऽनुपरतं यदि । सेवते विषयानेव तद्विद्यात्स्वप्नदर्शनम्’ इति । कामादयश्च मनसो वृत्तयः इति श्रुतिः । ताश्च स्वप्ने दृश्यन्ते । तस्मात्समना एव स्वप्ने विहरति । विहारोऽपि च तत्रत्यो वासनामय एव, न तु पारमार्थिकोऽस्ति । तथा च श्रुतिः इवकारानुबद्धमेव स्वप्नव्यापारं वर्णयति — ‘उतेव स्त्रीभिः सह मोदमानो जक्षदुतेवापि भयानि पश्यन्’ (बृ. उ. ४ । ३ । १३) इति । लौकिका अपि तथैव स्वप्नं कथयन्ति — आरुक्षमिव गिरिशृङ्गम् , अद्राक्षमिव वनराजिमिति । तथोपादानेऽपि यद्यपि करणेषु कर्मकरणविभक्तिनिर्देशः, तथापि तत्संपृक्तस्यैवात्मनः कर्तृत्वं द्रष्टव्यम् , केवले कर्तृत्वासम्भवस्य दर्शितत्वात् । भवति च लोकेऽनेकप्रकारा विवक्षा — योधा युध्यन्ते, योधै राजा युध्यत इति । अपि च अस्मिन्नुपादाने करणव्यापारोपरममात्रं विवक्ष्यते, न स्वातन्त्र्यं कस्यचित् , अबुद्धिपूर्वकस्यापि स्वापे करणव्यापारोपरमस्य दृष्टत्वात् । यस्त्वयं व्यपदेशो दर्शितः, ‘विज्ञानं यज्ञं तनुते’ इति, स बुद्धेरेव कर्तृत्वं प्रापयति — विज्ञानशब्दस्य तत्र प्रसिद्धत्वात् , मनोऽनन्तरं पाठाच्च, ‘तस्य श्रद्धैव शिरः’ (तै. उ. २ । ४ । १) इति च विज्ञानमयस्यात्मनः श्रद्धाद्यवयवत्वसङ्कीर्तनात् — श्रद्धादीनां च बुद्धिधर्मत्वप्रसिद्धेः, ‘विज्ञानं देवाः सर्वे ब्रह्म ज्येष्ठमुपासते’ (तै. उ. २ । ५ । १) इति च वाक्यशेषात् — ज्येष्ठत्वस्य च प्रथमजत्वस्य बुद्धौ प्रसिद्धत्वात् , ‘स एष वाचश्चित्तस्योत्तरोत्तरक्रमो यद्यज्ञः’ इति च श्रुत्यन्तरे यज्ञस्य वाग्बुद्धिसाध्यत्वावधारणात् । न च बुद्धेः शक्तिविपर्ययः करणानां कर्तृत्वाभ्युपगमे भवति, सर्वकारकाणामेव स्वस्वव्यापारेषु कर्तृत्वस्यावश्यंभावित्वात् । उपलब्ध्यपेक्षं त्वेषां करणानां करणत्वम् । सा चात्मनः । न च तस्यामप्यस्य कर्तृत्वमस्ति, नित्योपलब्धिस्वरूपत्वात् । अहंकारपूर्वकमपि कर्तृत्वं नोपलब्धुर्भवितुमर्हति, अहंकारस्याप्युपलभ्यमानत्वात् । न चैवं सति करणान्तरकल्पनाप्रसङ्गः, बुद्धेः करणत्वाभ्युपगमात् । समाध्यभावस्तु शास्त्रार्थवत्त्वेनैव परिहृतः, यथाप्राप्तमेव कर्तृत्वमुपादाय समाधिविधानात् । तस्मात्कर्तृत्वमप्यात्मन उपाधिनिमित्तमेवेति स्थितम् ॥ ४० ॥

एवं सिद्धान्तमुपपाद्य पूर्वपक्षबीजमनुभाषते -

यत्त्विति ।

शास्त्रार्थवत्त्वमादौ दूषयति -

तत्रेति ।

‘यत्परं शास्त्रं स एव तदर्थः ‘ इत्युपगमात् , तस्य च कर्त्रपेक्षितोपायतापरत्वात् , कर्तुः स्वरूपपरत्वाभावात्कर्ता लोकसिद्धो न शास्त्रसिद्ध इत्यर्थः ।

प्रसिद्धस्योद्देश्यत्वात्प्रसिद्धेश्च मानत्वात्प्रामाणिकं कर्तृत्वमित्याशङ्क्याह -

नचेति ।

विधिशास्त्रस्य स्वाभाविककर्तृत्वे तात्पर्याभावे फलितमाह -

तस्मादिति ।

श्रुतार्थापत्तिं निरस्याति -

कर्तेति ।

तदुभयनिरासन्यायेन लिङ्गद्वयमपि निरस्तमित्याह -

एतेनेति ।

अनुवादरूपत्वात्पारमार्थिककर्तृत्वासाधकत्वादिति शेषः ।

विहारोपदेशः स्वाभाविकमेव कर्तृत्वं साधयति, करणविरहे श्रुतकर्तृत्वस्य स्वाभाविकत्वध्रौव्यादित्याह -

नन्विति ।

उपादानमपि स्वाभाविकं कर्तृत्वं गमयतीत्याह -

तथेति ।

विशिष्टस्य कर्तृत्वे करणानामपि कर्त्रन्तर्भावात्तेष्वपि कर्तृविभक्तिः स्यात् । नचैवमस्ति, तेषु कर्मकरणविभक्त्योरेव श्रवणात् । तस्मात्केवलस्यैवात्मनः कर्तृतेत्यर्थः ।

परिहरति -

अत्रेति ।

तत्रादौ विहारोपदेशस्य स्वाभाविककर्तृत्वसाधकत्वं प्रत्याह -

न तावदिति ।

तत्रेति स्वप्नोक्तिः । जाग्रदवस्थायामिवेत्यपेरर्थः ।

स्वप्नावस्थायामात्मनो मनसः सम्बन्धे स्मृतिमाह -

तथा चेति

सेवते तेनैव मनसा वासनामयान्विषयान्यदीति योजना ।

स्वप्ने मनःसत्त्वे युक्तिमाह -

कामादयश्चेति ।

तथाच धर्मित्वेन मनोऽपि तत्रास्तीति शेषः ।

श्रुतिस्मृतियुक्तिसिद्धं निगमयति -

तस्मादिति ।

विहारस्य वास्तवत्वमुपेत्योक्तम् । इदानीं तदपि नास्ति कुतस्तद्वशादात्मनो वास्तवकर्तृतेत्याह -

विहारोऽपीति ।

यत्तूपादानादात्मनो वास्तवकर्तृत्वमिति, तत्राह -

तथेति ।

करणसहितस्य कर्तृत्वे करणेऽपि कर्तृविभक्तिः स्यादित्युक्तं प्रत्याह -

भवतीति ।

करणविशिष्टस्योपादानकर्तृत्वमुपेत्योक्तं, तदपि नास्तीत्याह -

अपिचेति ।

करणव्यापारोपरमस्य बुद्धिपूर्वकत्वात्तस्मिन्निष्टे तत्रात्मनः स्वातन्त्र्यमपीष्टमेवेत्याशङ्क्याह -

अबुद्धीति ।

व्यपदेशाच्च क्रियायामित्युक्तमनूद्य प्रत्याह -

यस्त्विति ।

बुद्धौ विज्ञानशब्दस्य प्रसिद्धत्वं ‘विज्ञानेन विज्ञानमादाय’ इत्यादौ द्रष्टव्यम् ।

मनोमयानन्तरं विज्ञानमयोक्तेश्च विज्ञानशब्दस्य बुद्ध्यर्थत्वं संनिधेरित्याह -

मनोनन्तरेति ।

तस्य तदर्थत्वे हेत्वन्तरमाह -

तस्येति ।

श्रद्धावयवत्वेऽपि कुतो विज्ञानमयस्य बुद्ध्यव्यतिरेकस्तत्राह -

श्रद्धादीनां चेति ।

मन्त्रशेषालोचनायामपि विज्ञानशब्दास्य बुद्ध्यर्थतेत्याह -

विज्ञानमिति ।

इन्द्रियाणि देवाः । तयापि कथं बुद्धिसिद्धिः, तत्राह -

ज्येष्ठत्वस्येति ।

‘महद्यक्षं प्रथमजं वेद', 'यो ह वै ज्येष्ठं च श्रेष्ठं च वेद’ इति बुद्धेरेव हिरण्यगर्भाभेदेन न्येष्ठत्वोक्तेर्वाक्यशेषे बुद्धिसिद्धिरित्यर्थः ।

किञ्च श्रुत्यन्तरे यज्ञस्य बुद्धिसाध्यत्वसिद्धेर्यज्ञकर्तृविज्ञानं बुद्धिरेवेत्याह -

स एष इति ।

चित्तेन ध्यात्वा वाचा मन्त्रोक्त्या यज्ञो जायते तेन चित्तस्य पूर्वोत्तरभावो यज्ञ इति यज्ञकर्तुर्बुद्धित्वसिद्धेस्तत्सामान्यादत्रापि बुद्धिरेव विज्ञानमित्यर्थः ।

‘न चेन्निर्देशविपर्ययः’ इत्युक्तं ‘शक्तिविपर्ययात्’ इत्युक्तेन सह दूषयति -

नचेति ।

विक्लिद्यन्ति तण्डुलाः, ज्वलन्ति काष्ठानि, बिभर्ति स्थालीति कारकान्तराणामपि स्वव्यापारेषु कर्तृत्वस्वीकारादित्याह -

सर्वेति ।

तर्हि बुद्ध्यादीनां कर्तृत्वमेव न करणत्वं, नेत्याह -

उपलब्धीति ।

तत्रापि बुद्धेरेव कर्तृत्वमित्याशङ्क्योक्तम् -

सा चेति ।

तर्हि केवलस्यात्मनस्तां प्रति कर्तृत्वं, नेत्याह -

नचेति ।

न चोपलब्धेर्नित्यत्वे कुतो बुद्धेस्तत्र करणतेति वाच्यम् , विषयोपरक्ततया तस्या जन्यत्वात्तत्र करणत्वसिद्धिरिति भावः ।

यत्तु बुद्धेः कर्तृत्वे कर्तुरहमित्युपलभ्य प्रवृत्तिदृष्टेरुपलब्धौ करणान्तरस्यान्वेष्यत्वाच्च केवलस्यैवात्मनः कर्तृत्वमिति, तत्राह -

अहङ्करेति ।

सत्यमहकारपू र्वकं कर्तृत्वं तथापि न तदुपलब्धुः साक्षिणोऽस्तीत्यत्र हेतुमाह -

अहङ्कारस्येति ।

अहङ्कारवत्तद्विशिष्टस्यैव चेतनस्य कर्तृत्वं साक्षिणोपलभ्यते तस्मान्न केवलस्यात्मनः कर्तृत्वम् । विशिष्टस्य च कर्तृत्वे ज्ञातुरेव कर्तृत्वं कर्तुरेव भोक्तृत्वमित्येतदपि सिध्यतीत्यर्थः ।

उपलब्धौ बुद्धेरकर्तृत्वे बुद्धेरुपलब्धृत्वे करणान्तरं कल्प्यमित्यपि प्रत्युक्तमित्याह -

नचेति ।

बुद्धेरुपलब्धृत्वाभावे सतीति यावत् ।

किञ्च बुद्धेरुपलब्धौ करणत्वमात्मनश्च कर्तृत्वं नेष्टं तदात्मा बुद्ध्या जानातीत्ययुक्तं, नेत्याह -

बुद्धेरिति ।

आत्मस्वरूपोपलब्धौ नित्यत्वात्कर्त्राद्यभावेऽपि तस्यास्तत्तदर्थावच्छेदे बुद्ध्यादीनां करणत्वादात्मनश्च तदुपाधिनाऽहङ्कारपूर्वकं कर्तृत्वादविरुद्धा प्रसिद्धिरित्यर्थः ।

यत्तु समाध्यभावाच्चेति तत्राह -

समाधीति ।

उक्तहेतूनामात्मनि स्वाभाविककर्तृत्वासाधकत्वे सिद्धे विध्यादिश्रुतीनां कल्पितकर्तृत्वोपजीवित्वात् , असङ्गश्रुतीनां च वास्तवासङ्गत्ववादित्वान्मिथोविरोधाभावान्नित्यशुद्धे ब्रह्मणि समन्वयसिद्धिरित्युपसंहरति -

तस्मादिति ॥ ४० ॥