ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
परात्तु तच्छ्रुतेः ॥ ४१ ॥
यदिदमविद्यावस्थायामुपाधिनिबन्धनं कर्तृत्वं जीवस्याभिहितम् , तत्किमनपेक्ष्येश्वरं भवति, आहोस्विदीश्वरापेक्षमिति भवति विचारणातत्र प्राप्तं तावत्नेश्वरमपेक्षते जीवः कर्तृत्व इतिकस्मात् ? अपेक्षाप्रयोजनाभावात्अयं हि जीवः स्वयमेव रागद्वेषादिदोषप्रयुक्तः कारकान्तरसामग्रीसम्पन्नः कर्तृत्वमनुभवितुं शक्नोतितस्य किमीश्वरः करिष्यति लोके प्रसिद्धिरस्तिकृष्यादिकासु क्रियास्वनडुदादिवत् ईश्वरोऽपेक्षितव्य इतिक्लेशात्मकेन कर्तृत्वेन जन्तून्संसृजत ईश्वरस्य नैर्घृण्यं प्रसज्येतविषमफलं एषां कर्तृत्वं विदधतो वैषम्यम्ननु वैषम्यनैर्घृण्ये सापेक्षत्वात्’ (ब्र. सू. २ । १ । ३४) इत्युक्तम्सत्यमुक्तम् , सति तु ईश्वरस्य सापेक्षत्वसम्भवे; सापेक्षत्वं ईश्वरस्य सम्भवति सतोर्जन्तूनां धर्माधर्मयोःतयोश्च सद्भावः सति जीवस्य कर्तृत्वेतदेव चेत्कर्तृत्वमीश्वरापेक्षं स्यात् , किंविषयमीश्वरस्य सापेक्षत्वमुच्यतेअकृताभ्यागमश्चैवं जीवस्य प्रसज्येततस्मात्स्वत एवास्य कर्तृत्वमितिएतां प्राप्तिं तुशब्देन व्यावर्त्य प्रतिजानीतेपरादितिअविद्यावस्थायां कार्यकरणसङ्घाताविवेकदर्शिनो जीवस्याविद्यातिमिरान्धस्य सतः परस्मादात्मनः कर्माध्यक्षात्सर्वभूताधिवासात्साक्षिणश्चेतयितुरीश्वरात्तदनुज्ञया कर्तृत्वभोक्तृत्वलक्षणस्य संसारस्य सिद्धिःतदनुग्रहहेतुकेनैव विज्ञानेन मोक्षसिद्धिर्भवितुमर्हतिकुतः ? तच्छ्रुतेःयद्यपि दोषप्रयुक्तः सामग्रीसम्पन्नश्च जीवः, यद्यपि लोके कृष्यादिषु कर्मसु नेश्वरकारणत्वं प्रसिद्धम् , तथापि सर्वास्वेव प्रवृत्तिष्वीश्वरो हेतुकर्तेति श्रुतेरवसीयतेतथा हि श्रुतिर्भवतिएष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषतेएष ह्येवासाधु कर्म कारयति तं यमधो निनीषते’ (कौ. उ. ३ । ७) इति, ‘ आत्मनि तिष्ठन्नात्मानमन्तरो यमयतिइति एवंजातीयका ॥ ४१ ॥

औपाधिकमपि पूर्वोक्तं कर्तृत्वमीश्वरायत्तमित्याह -

परात्त्विति ।