ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः ॥ ४२ ॥
तुशब्दश्चोदितदोषव्यावर्तनार्थः । कृतो यः प्रयत्नो जीवस्य धर्माधर्मलक्षणः, तदपेक्ष एवैनमीश्वरः कारयति । ततश्चैते चोदिता दोषा न प्रसज्यन्ते — जीवकृतधर्माधर्मवैषम्यापेक्ष एव तत्तत्फलानि विषमं विभजते पर्जन्यवत् ईश्वरो निमित्तत्वमात्रेण — यथा लोके नानाविधानां गुच्छगुल्मादीनां व्रीहियवादीनां च असाधारणेभ्यः स्वस्वबीजेभ्यो जायमानानां साधारणं निमित्तं भवति पर्जन्यः — न हि असति पर्जन्ये रसपुष्पफलपलाशादिवैषम्यं तेषां जायते, नाप्यसत्सु स्वस्वबीजेषु — एवं जीवकृतप्रयत्नापेक्ष ईश्वरः तेषां शुभाशुभं विदध्यादिति श्लिष्यते । ननु कृतप्रयत्नापेक्षत्वमेव जीवस्य परायत्ते कर्तृत्वे नोपपद्यते — नैष दोषः; परायत्तेऽपि हि कर्तृत्वे, करोत्येव जीवः, कुर्वन्तं हि तमीश्वरः कारयति । अपि च पूर्वप्रयत्नमपेक्ष्य इदानीं कारयति, पूर्वतरं च प्रयत्नमपेक्ष्य पूर्वमकारयदिति — अनादित्वात्संसारस्येति — अनवद्यम् । कथं पुनरवगम्यते — कृतप्रयत्नापेक्ष ईश्वर इति ? विहितप्रतिषिद्धावैयर्थ्यादिभ्यः इत्याह । एवं हि ‘स्वर्गकामो यजेत’ ‘ब्राह्मणो न हन्तव्यः’ इत्येवंजातीयकस्य विहितस्य प्रतिषिद्धस्य च अवैयर्थ्यं भवति । अन्यथा तदनर्थकं स्यात् । ईश्वर एव विधिप्रतिषेधयोर्नियुज्येत, अत्यन्तपरतन्त्रत्वाज्जीवस्य । तथा विहितकारिणमप्यनर्थेन संसृजेत् , प्रतिषिद्धकारिणमप्यर्थेन । ततश्च प्रामाण्यं वेदस्यास्तमियात् । ईश्वरस्य च अत्यन्तानपेक्षत्वे लौकिकस्यापि पुरुषकारस्य वैयर्थ्यम् , तथा देशकालनिमित्तानाम् । पूर्वोक्तदोषप्रसङ्गश्च — इत्येवंजातीयकं दोषजातमादिग्रहणेन दर्शयति ॥ ४२ ॥

तदक्षराणि व्याकरोति -

तुशब्द इति ।

ईश्वरस्य प्रवर्त्यादृष्टापेक्षया प्रवर्तकत्वे फलितमाह -

ततश्चेति ।

दोषाणामप्रसङ्गमेव प्रकटयति -

जीवेति ।

धर्माधर्माभ्यामेव फलवैषम्यासिद्धेरलमीश्वरेणेत्याशङ्क्य पर्जन्यवदित्युक्तम् । तद्विवृणोति -

यथेति ।

अतिदीर्घा वल्ल्यो गुच्छाः, ह्रस्वा गुल्मा इति भेदः ।

बीजेभ्यो जायमानव्रीह्यादीनां कृतं पर्जन्येनेत्याशङ्क्याह -

न हीति ।

कृतं तर्हि बीजैरित्याशङ्क्याह -

नापीति ।

दार्ष्टान्तिकं विवृणोति -

एवमिति ।

यदि जीवेन कृतः स्वेच्छया कश्चित्प्रयत्नस्तदा तदपेक्षः सन्नीश्वरो विषमं कर्तृत्वं कुर्यात् । न तु तदस्ति, चक्रकापत्तेरिति शङ्कते -

नन्विति ।

किमीश्वरस्य कारयितृत्वे जीवस्य कर्तृत्वमेव नेत्यापाद्यते किं वा तस्य कर्तृत्वे कारयितृत्वमीश्वरस्य नेति, तत्राद्यं प्रत्याह –

नेति ।

न हि गुर्वधीनो माणवको नाध्ययनस्य कर्तेति भावः ।

द्वितीयं दूषयति -

कुर्वन्तं हीति ।

अध्ययनशक्तं प्रत्येवाध्यापकत्वोपलम्भात्क्रियाशक्तिमन्तं जीवं प्रत्यपि कारयितृत्वमीश्वरस्य युक्तमिति भावः ।

चक्रकापत्तिं निरस्याति -

अपिचेति ।

अनवद्यं जीवस्य कर्तृत्वं तत्कृतधर्माधर्मापेक्षया च कारयितृत्वमीश्वरस्येति शेषः ।

तस्य सापेक्षत्वे मानं पृच्छति -

कथमिति ।

तत्र मानोक्तिपरं सूत्रावयवमादत्ते -

विहितेति ।

ईश्वरस्य सापेक्षत्वे विहितस्य निषिद्धस्य चावैयर्थ्यम् , तस्य चेन्नैरपेक्ष्यं तदा तयोरानार्थक्यम् । अतस्तयोरर्थवत्त्वानुपपत्तिरीश्वरस्य सापेक्षत्वसाधिकेत्याह -

एवमिति ।

किमितीश्वरस्य नैरपेक्ष्ये विहितादिवैयर्थ्यं, तत्राह -

ईश्वरइति ।

तयोः स्थाने स एव नियुज्येत यत्ताभ्यां कार्यं तदसावेव कुर्यादिति तयोरानर्थक्यमित्यर्थः ।

जीवं प्रति प्रवर्तकत्वेन निवर्तकत्वेन च तदर्थवत्त्वमाशङ्क्याह -

अत्यन्तेति ।

सर्वात्मना जीवस्येश्वराधीनत्वात्तत्प्रेरितस्य प्रवृत्तिनिवृत्तिभाक्त्वात्कृतं विधिनिषेधाभ्यामित्यर्थः ।

आदिशब्दार्थमाह -

तथेति ।

अत्यन्तं स्वातन्त्र्यादेवं कुर्वन्नपीश्वरो न पर्यनुयोगमर्हतीत्याशङ्क्याह -

ततश्चेति ।

ईश्वरस्य स्वातन्त्र्येण फलहेतुत्वे समीहितासमीहितहेतुभेदविधायि शास्रममानं स्यादित्यर्थः ।

आदिशब्दगृहीतं दोषान्तरमाह -

ईश्वरस्येति ।

पुरुषकारस्य ।

इष्टानिष्टाप्तिहानानुकूलस्य यत्नस्येति यावत् । पुरुषकारवैयर्थ्यं दृष्टान्तयितुं तथेत्युक्तम् । तेषां वैयर्थ्यमिति सम्बन्धः । पूर्वोक्तदोषोऽकृताभ्यागमादिः । तदेवम् ‘एष हि’ इत्यादिश्रुतीनां विध्यादिश्रुतिभिरविरोधात्परस्मिन्नशेषनियन्तरि समन्वयसिद्धिरिति ॥ ४२ ॥