ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः ॥ ४२ ॥
तुशब्दश्चोदितदोषव्यावर्तनार्थःकृतो यः प्रयत्नो जीवस्य धर्माधर्मलक्षणः, तदपेक्ष एवैनमीश्वरः कारयतिततश्चैते चोदिता दोषा प्रसज्यन्तेजीवकृतधर्माधर्मवैषम्यापेक्ष एव तत्तत्फलानि विषमं विभजते पर्जन्यवत् ईश्वरो निमित्तत्वमात्रेणयथा लोके नानाविधानां गुच्छगुल्मादीनां व्रीहियवादीनां असाधारणेभ्यः स्वस्वबीजेभ्यो जायमानानां साधारणं निमित्तं भवति पर्जन्यः हि असति पर्जन्ये रसपुष्पफलपलाशादिवैषम्यं तेषां जायते, नाप्यसत्सु स्वस्वबीजेषुएवं जीवकृतप्रयत्नापेक्ष ईश्वरः तेषां शुभाशुभं विदध्यादिति श्लिष्यतेननु कृतप्रयत्नापेक्षत्वमेव जीवस्य परायत्ते कर्तृत्वे नोपपद्यतेनैष दोषः; परायत्तेऽपि हि कर्तृत्वे, करोत्येव जीवः, कुर्वन्तं हि तमीश्वरः कारयतिअपि पूर्वप्रयत्नमपेक्ष्य इदानीं कारयति, पूर्वतरं प्रयत्नमपेक्ष्य पूर्वमकारयदितिअनादित्वात्संसारस्येतिअनवद्यम्कथं पुनरवगम्यतेकृतप्रयत्नापेक्ष ईश्वर इति ? विहितप्रतिषिद्धावैयर्थ्यादिभ्यः इत्याहएवं हिस्वर्गकामो यजेत’ ‘ब्राह्मणो हन्तव्यःइत्येवंजातीयकस्य विहितस्य प्रतिषिद्धस्य अवैयर्थ्यं भवतिअन्यथा तदनर्थकं स्यात्ईश्वर एव विधिप्रतिषेधयोर्नियुज्येत, अत्यन्तपरतन्त्रत्वाज्जीवस्यतथा विहितकारिणमप्यनर्थेन संसृजेत् , प्रतिषिद्धकारिणमप्यर्थेनततश्च प्रामाण्यं वेदस्यास्तमियात्ईश्वरस्य अत्यन्तानपेक्षत्वे लौकिकस्यापि पुरुषकारस्य वैयर्थ्यम् , तथा देशकालनिमित्तानाम्पूर्वोक्तदोषप्रसङ्गश्चइत्येवंजातीयकं दोषजातमादिग्रहणेन दर्शयति ॥ ४२ ॥

तदक्षराणि व्याकरोति -

तुशब्द इति ।

ईश्वरस्य प्रवर्त्यादृष्टापेक्षया प्रवर्तकत्वे फलितमाह -

ततश्चेति ।

दोषाणामप्रसङ्गमेव प्रकटयति -

जीवेति ।

धर्माधर्माभ्यामेव फलवैषम्यासिद्धेरलमीश्वरेणेत्याशङ्क्य पर्जन्यवदित्युक्तम् । तद्विवृणोति -

यथेति ।

अतिदीर्घा वल्ल्यो गुच्छाः, ह्रस्वा गुल्मा इति भेदः ।

बीजेभ्यो जायमानव्रीह्यादीनां कृतं पर्जन्येनेत्याशङ्क्याह -

न हीति ।

कृतं तर्हि बीजैरित्याशङ्क्याह -

नापीति ।

दार्ष्टान्तिकं विवृणोति -

एवमिति ।

यदि जीवेन कृतः स्वेच्छया कश्चित्प्रयत्नस्तदा तदपेक्षः सन्नीश्वरो विषमं कर्तृत्वं कुर्यात् । न तु तदस्ति, चक्रकापत्तेरिति शङ्कते -

नन्विति ।

किमीश्वरस्य कारयितृत्वे जीवस्य कर्तृत्वमेव नेत्यापाद्यते किं वा तस्य कर्तृत्वे कारयितृत्वमीश्वरस्य नेति, तत्राद्यं प्रत्याह –

नेति ।

न हि गुर्वधीनो माणवको नाध्ययनस्य कर्तेति भावः ।

द्वितीयं दूषयति -

कुर्वन्तं हीति ।

अध्ययनशक्तं प्रत्येवाध्यापकत्वोपलम्भात्क्रियाशक्तिमन्तं जीवं प्रत्यपि कारयितृत्वमीश्वरस्य युक्तमिति भावः ।

चक्रकापत्तिं निरस्याति -

अपिचेति ।

अनवद्यं जीवस्य कर्तृत्वं तत्कृतधर्माधर्मापेक्षया च कारयितृत्वमीश्वरस्येति शेषः ।

तस्य सापेक्षत्वे मानं पृच्छति -

कथमिति ।

तत्र मानोक्तिपरं सूत्रावयवमादत्ते -

विहितेति ।

ईश्वरस्य सापेक्षत्वे विहितस्य निषिद्धस्य चावैयर्थ्यम् , तस्य चेन्नैरपेक्ष्यं तदा तयोरानार्थक्यम् । अतस्तयोरर्थवत्त्वानुपपत्तिरीश्वरस्य सापेक्षत्वसाधिकेत्याह -

एवमिति ।

किमितीश्वरस्य नैरपेक्ष्ये विहितादिवैयर्थ्यं, तत्राह -

ईश्वरइति ।

तयोः स्थाने स एव नियुज्येत यत्ताभ्यां कार्यं तदसावेव कुर्यादिति तयोरानर्थक्यमित्यर्थः ।

जीवं प्रति प्रवर्तकत्वेन निवर्तकत्वेन च तदर्थवत्त्वमाशङ्क्याह -

अत्यन्तेति ।

सर्वात्मना जीवस्येश्वराधीनत्वात्तत्प्रेरितस्य प्रवृत्तिनिवृत्तिभाक्त्वात्कृतं विधिनिषेधाभ्यामित्यर्थः ।

आदिशब्दार्थमाह -

तथेति ।

अत्यन्तं स्वातन्त्र्यादेवं कुर्वन्नपीश्वरो न पर्यनुयोगमर्हतीत्याशङ्क्याह -

ततश्चेति ।

ईश्वरस्य स्वातन्त्र्येण फलहेतुत्वे समीहितासमीहितहेतुभेदविधायि शास्रममानं स्यादित्यर्थः ।

आदिशब्दगृहीतं दोषान्तरमाह -

ईश्वरस्येति ।

पुरुषकारस्य ।

इष्टानिष्टाप्तिहानानुकूलस्य यत्नस्येति यावत् । पुरुषकारवैयर्थ्यं दृष्टान्तयितुं तथेत्युक्तम् । तेषां वैयर्थ्यमिति सम्बन्धः । पूर्वोक्तदोषोऽकृताभ्यागमादिः । तदेवम् ‘एष हि’ इत्यादिश्रुतीनां विध्यादिश्रुतिभिरविरोधात्परस्मिन्नशेषनियन्तरि समन्वयसिद्धिरिति ॥ ४२ ॥