ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
मन्त्रवर्णाच्च ॥ ४४ ॥
मन्त्रवर्णश्चैतमर्थमवगमयतितावानस्य महिमा ततो ज्यायाꣳश्च पूरुषःपादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’ (छा. उ. ३ । १२ । ६) इतिअत्र भूतशब्देन जीवप्रधानानि स्थावरजङ्गमानि निर्दिशति, ‘अहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्यःइति प्रयोगात्; अंशः पादो भाग इत्यनर्थान्तरम्; तस्मादप्यंशत्वावगमः ॥ ४४ ॥

तद्व्याचष्टे -

मन्त्रेति ।

अस्य सहस्रशीर्ष्णः पुरुषस्य तावान्महिमा विभूतिनं स्वरूपं यावानेष प्रपञ्चस्ततस्तस्मात्प्रपञ्चाज्ज्यायान्महत्तर एवायं प्रकृतः पुरुषः । आद्यपादार्थं विवृणोति -

पादोऽस्येति ।

द्वितीयपादार्थं प्रपञ्चयति -

त्रिपादिति ।

भूतशब्देन रूढियोगाभ्यां महाभूतानां जनिमन्मात्रस्य ज्ञाने कुतो जीवोक्तिरित्याशङ्क्याह -

अत्रेति ।

वृद्धव्यवहाराभावे कथं भूतशब्दस्योक्तार्थततेत्याशङ्क्य वैदिकव्यवहारं दर्शयति -

अहिंसन्निति ।

तीर्थानि शास्त्रोक्तानि कर्माणि तेभ्योऽन्यत्र सर्वाणि भूतान्यहिसन्वर्तेतेत्यत्र भूतशब्दो जीवप्रधानेषु स्थावरजङ्गमेषु प्रयुज्यते तत्र प्राप्तहिंसानिषेधस्य फलवत्त्वात् । अतो युक्तं प्रकृतेऽपि भूतशब्दस्य जीवविषयत्वमित्यर्थः ।

तथापि भूतानां पादत्वमेवोच्यते न त्वंशत्वमित्याशङ्क्याह -

अंश इति ।

मान्त्रवर्णिकमर्थमुपसंहरति -

तस्मादिति ॥ ४४ ॥