ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
अपि च स्मर्यते ॥ ४५ ॥
ईश्वरगीतास्वपि ईश्वरांशत्वं जीवस्य स्मर्यतेममैवांशो जीवलोके जीवभूतः सनातनः’ (भ. गी. १५ । ७) इतितस्मादप्यंशत्वावगमःयत्तूक्तम् , स्वामिभृत्यादिष्वेव ईशित्रीशितव्यभावो लोके प्रसिद्ध इतियद्यप्येषा लोके प्रसिद्धिः, तथापि शास्त्रात्तु अत्र अंशांशित्वमीशित्रीशितव्यभावश्च निश्चीयतेनिरतिशयोपाधिसम्पन्नश्चेश्वरो निहीनोपाधिसम्पन्नाञ्जीवान् प्रशास्तीति किञ्चिद्विप्रतिषिध्यते ॥ ४५ ॥

तद्व्याकरोति -

ईश्वरेति ।

स्मृतिसिद्धमर्यं निगमयति -

तस्मादिति ।

जीवेश्वरयोरीशित्रीशितव्यभावात्तस्य स्वामिभृत्यादिष्वेव प्रसिद्धत्वात्तयोः स्वामिभृत्यभावः सम्बन्धो नांशांशित्वं लोकप्रसिद्धिविरोधादित्याशङ्क्योक्तमनुवदति -

यत्त्विति ।

यववराहाधिकरणन्यायेन लोकप्रसिद्धिः शास्त्रीयप्रसिद्ध्या बाध्येत्याह -

यद्यपीति ।

जीवेश्वरयोरौपाधिकत्वाविशेषे कस्मादीशित्रीशितव्यभावो विपरीतो न स्यादित्याशङ्क्याह -

निरतिशयेति ।

एकस्मिन्नेव पूर्णे चिदात्मन्यनाद्यनिर्वाच्याविद्याकल्पितो जीवेश्वरजगद्भेदः । तत्र कल्पितोपाध्युत्कर्षनिकर्षवशादीशित्रीशितव्यव्यवस्था । वस्तुतस्तु सर्वकल्पनातीतं चिदेकतानमद्वितीयं तत्त्वमिति भावः ॥ ४५ ॥