ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
अपि च स्मर्यते ॥ ४५ ॥
अत्राहननु जीवस्येश्वरांशत्वाभ्युपगमे तदीयेन संसारदुःखोपभोगेनांशिन ईश्वरस्यापि दुःखित्वं स्यात्यथा लोके हस्तपादाद्यन्यतमाङ्गगतेन दुःखेन अङ्गिनो देवदत्तस्य दुःखित्वम् , तद्वत्ततश्च तत्प्राप्तानां महत्तरं दुःखं प्राप्नुयात्अतो वरं पूर्वावस्थः संसार एवास्तुइति सम्यग्दर्शनानर्थक्यप्रसङ्गः स्यात्इतिअत्रोच्यते

उत्तरसूत्रव्यावर्त्यां शङ्कामाह -

अत्रेति ।

जीवेश्वरयोरंशांशित्वं सप्तम्यर्थः ।

दुःखित्वं स्यात् ।

ततश्चानीश्वरत्वमिति शेषः ।

अंशगतेन दुःखेनांशिनो दुःखित्वं दृष्टान्तेन स्पष्टयति -

यथेति ।

ईश्वरस्य दुःखित्वे दोषान्तरमाह -

ततश्चेति ।

ब्रह्मप्राप्तानां महत्तरे दुःखे प्राप्ते मोक्षस्यापुरुषार्थतेत्याह -

अत इति ।

तस्यापुमर्थत्वे सम्यग्धीसाधनविधायिशास्त्रवैयर्थ्यमित्याह -

इति सम्यगिति ।

सूत्रमवतारयति -

अत्रेति ।

नैवं पर इति भागं विभजते -

यथेति ।

प्रतिज्ञाते विभागे हेतुमाह -

जीवो हीति ।

जीवस्य दुःखित्वे तदंशित्वादीश्वर स्यापि दुःखित्वमित्याशङ्क्य तस्यापि वस्तुतोऽदुःखित्वान्मैवमित्याह -

जीवस्येति ।

न चानिर्वाच्यमेव दुःखं, ब्रह्मण्यपीति वाच्यं, तदुपनायकदृष्ट्यभावात् , कल्पितस्य च दृष्टिमात्रदेहत्वात् , जीवद्वारा च ब्रह्मणि तदुपगमात् । नचैवं ब्रह्मप्राप्तानां महत्तरदुःखप्राप्तिरज्ञानतज्जध्वस्तेरेव तत्प्राप्तित्वादिति भावः ।

मिथ्याभिमानकृतं दुःखमित्ययुक्तं, पुत्रादौ विवेकबुद्ध्यात्माभिमानाभावेऽपि तद्गतदुःखस्यात्मन्यारोपादित्याशङ्क्याह -

यथा चेति ।

अनुभवितारं विशिंषन्भ्रान्तिमभिनयति -

अहमिति ।

अन्वयेनोक्तं निगमयति -

ततश्चेति ।

तमेवार्थं व्यतिरेकेण स्फोरयति -

व्यतिरेकेति ।

तदेव विवृणोति -

तथा हीति ।

उक्तं व्यतिरेकमुपजीव्य सम्यग्दर्शनानर्थक्यप्रसङ्गं प्रत्यादिशति -

अतश्चेति ।

लौकिकस्य शास्त्रोत्थतत्त्वधीशून्यस्येत्यर्थः ।

सम्यग्दर्शनं विवेकज्ञानमात्रम् ।

विषयशून्यात् ।

अविषयादिति यावत् । तस्य सम्यग्दर्शनं शास्त्रीयं तत्त्वसाक्षात्करणं तस्यार्थवत्त्वमिति किमु वक्तव्यमिति योजना ।

कैमुतिकन्यायफलमाह -

तस्मादिति ॥ ४५ ॥