उत्तरसूत्रव्यावर्त्यां शङ्कामाह -
अत्रेति ।
जीवेश्वरयोरंशांशित्वं सप्तम्यर्थः ।
दुःखित्वं स्यात् ।
ततश्चानीश्वरत्वमिति शेषः ।
अंशगतेन दुःखेनांशिनो दुःखित्वं दृष्टान्तेन स्पष्टयति -
यथेति ।
ईश्वरस्य दुःखित्वे दोषान्तरमाह -
ततश्चेति ।
ब्रह्मप्राप्तानां महत्तरे दुःखे प्राप्ते मोक्षस्यापुरुषार्थतेत्याह -
अत इति ।
तस्यापुमर्थत्वे सम्यग्धीसाधनविधायिशास्त्रवैयर्थ्यमित्याह -
इति सम्यगिति ।
सूत्रमवतारयति -
अत्रेति ।
नैवं पर इति भागं विभजते -
यथेति ।
प्रतिज्ञाते विभागे हेतुमाह -
जीवो हीति ।
जीवस्य दुःखित्वे तदंशित्वादीश्वर स्यापि दुःखित्वमित्याशङ्क्य तस्यापि वस्तुतोऽदुःखित्वान्मैवमित्याह -
जीवस्येति ।
न चानिर्वाच्यमेव दुःखं, ब्रह्मण्यपीति वाच्यं, तदुपनायकदृष्ट्यभावात् , कल्पितस्य च दृष्टिमात्रदेहत्वात् , जीवद्वारा च ब्रह्मणि तदुपगमात् । नचैवं ब्रह्मप्राप्तानां महत्तरदुःखप्राप्तिरज्ञानतज्जध्वस्तेरेव तत्प्राप्तित्वादिति भावः ।
मिथ्याभिमानकृतं दुःखमित्ययुक्तं, पुत्रादौ विवेकबुद्ध्यात्माभिमानाभावेऽपि तद्गतदुःखस्यात्मन्यारोपादित्याशङ्क्याह -
यथा चेति ।
अनुभवितारं विशिंषन्भ्रान्तिमभिनयति -
अहमिति ।
अन्वयेनोक्तं निगमयति -
ततश्चेति ।
तमेवार्थं व्यतिरेकेण स्फोरयति -
व्यतिरेकेति ।
तदेव विवृणोति -
तथा हीति ।
उक्तं व्यतिरेकमुपजीव्य सम्यग्दर्शनानर्थक्यप्रसङ्गं प्रत्यादिशति -
अतश्चेति ।
लौकिकस्य शास्त्रोत्थतत्त्वधीशून्यस्येत्यर्थः ।
सम्यग्दर्शनं विवेकज्ञानमात्रम् ।
विषयशून्यात् ।
अविषयादिति यावत् । तस्य सम्यग्दर्शनं शास्त्रीयं तत्त्वसाक्षात्करणं तस्यार्थवत्त्वमिति किमु वक्तव्यमिति योजना ।
कैमुतिकन्यायफलमाह -
तस्मादिति ॥ ४५ ॥