ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
प्रकाशादिवन्नैवं परः ॥ ४६ ॥

ईश्वरः स्वांशगतैर्दुःखैर्दुःखी स्यात् , अंशित्वात् देवदत्तवदित्यत्र तन्निमित्तभ्रमवत्त्वोपाधेरप्रयोजको हेतुरित्युक्तम् । इदानीं तात्त्विकं प्रातीतिकं वा दुःखित्वमीश्वरे साध्यमिति विकल्प्याद्ये यदंशाश्रितं तदंशिनि वस्तुतः स्यादित्यत्र व्यभिचारमाह -

प्रकाशेति ।