प्रकाशदृष्टान्तं व्याचष्टे -
यथेति ।
आत्मन्युपाधितो दुःखादिप्रतीतिरेव, वस्तुतस्तु न प्राप्तिरित्यत्र दृष्टान्तमुक्त्वा लोकद्वयसंसारस्यापि तस्मिन्प्रतीतिमात्रं न वस्तुतेत्यत्र दृष्टान्तमाह -
यथा चेति ।
क्रियामात्रस्यात्मनि वस्तुतो नास्ति प्राप्तिरित्यत्रोदाहरणम् -
यथाचेति ।
दृष्टान्तत्रयगतमर्थं दार्ष्टान्तिके योजयति -
एवमिति ।
वास्तवे दुःखित्वे साध्ये व्यभिचारमुक्त्वा दृष्टान्तस्य साध्यवैकल्यमाह -
जीवस्येति ।
प्रतीतिके दुःखित्वे साध्ये जीवद्वारा परस्मिन्नपि तत्प्रतीतेरिष्टत्वेन सिद्धसाध्यतां मत्वोभयत्रापि नास्ति वस्तुतो दुःखित्वमागमविरोधादित्याह -
तथाचेति ।
परकीयानुमाननिरासफलमुपसंहरति -
तस्मादिति ॥ ४६ ॥
कासौ स्मृतिस्तामाह -
तत्रेति ।
निर्धारणार्थ सप्तमी । फलैश्चापीति चकारात्कर्मभिरपीत्यर्थः । कर्मात्मा कर्माश्रयो जीवः । पञ्च ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि पञ्च वायवो मनो बुद्धिश्चेति सप्तदशसङ्ख्यावच्छिन्नः समूहः सप्तदशको राशिस्तेनेति यावत् ।
सूत्रे स्मृतिविरोध उद्भाव्यते, श्रुतिविरोधस्तु न भातीत्याशङ्क्याह -
चशब्दादिति ।
यथादित्यः सर्वप्रकाशको न प्रकाश्यदोषैः स्पृश्यते तथेति यावत् ॥ ४७ ॥