मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायः
तृतीयः पादः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
न्यायनिर्णयव्याख्या
स्मरन्ति च ॥ ४७ ॥
स्मरन्ति
च
व्यासादयः
—
यथा
जैवेन
दुःखेन
न
परमात्मा
दुःखायत
इति
; ‘
तत्र
यः
परमात्मा
हि
स
नित्यो
निर्गुणः
स्मृतः
।’,‘
न
लिप्यते
फलैश्चापि
पद्मपत्रमिवाम्भसा
।
कर्मात्मा
त्वपरो
योऽसौ
मोक्षबन्धैः
स
युज्यते
॥’,‘
स
सप्तदशकेनापि
राशिना
युज्यते
पुनः
’
इति
।
चशब्दात्
समामनन्ति
च
—
इति
वाक्यशेषः
—
‘
तयोरन्यः
पिप्पलं
स्वाद्वत्त्यनश्नन्नन्यो
अभिचाकशीति
’ (श्वे. उ. ४ । ६)
इति
,
‘
एकस्तथा
सर्वभूतान्तरात्मा
न
लिप्यते
लोकदुःखेन
बाह्यः
’ (क. उ. २ । २ । ११)
इति
च
॥ ४७ ॥
स्मरन्ति चेत्यादिना
;
तत्र स्मृतिविरोधं विभजते -
स्मरन्ति चेत्यादिना ।