ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
असन्ततेश्चाव्यतिकरः ॥ ४९ ॥
स्यातां नाम अनुज्ञापरिहारावेकस्याप्यात्मनो देहविशेषयोगात्यस्त्वयं कर्मफलसम्बन्धः, ऐकात्म्याभ्युपगमे व्यतिकीर्येत, स्वाम्येकत्वादिति चेत् , नैतदेवम् , असन्ततेः हि कर्तुर्भोक्तुश्चात्मनः सन्ततः सर्वैः शरीरैः सम्बन्धोऽस्तिउपाधितन्त्रो हि जीव इत्युक्तम्उपाध्यसन्तानाच्च नास्ति जीवसन्तानःततश्च कर्मव्यतिकरः फलव्यतिकरो वा भविष्यति ॥ ४९ ॥

सूत्रव्यावर्त्यं शङ्कामाह -

स्यातामिति ।

यद्यपि स्थूलदेहावच्छेदादनुज्ञापरिहारौ युज्येते तथापि कर्मफलसङ्करो दुर्वारः, एतद्देहिविशिष्टस्य स्वर्गादिभोगायोगे स्वरूपस्यैव तद्योगध्रौव्यात् । अतः स्वर्गीतरादिव्यवस्थानुपपत्त्या स्वरूपभेद इत्यर्थः ।

किं परमात्मापेक्षयैकत्वं किं वा जीवापेक्षया । आद्ये परस्याभोक्तुरपि सर्वाश्रयत्वान्न व्यतिकराशङ्केत्याह -

नैतदिति ।

द्वितीयं सूत्रवयवेन निरस्यति -

असन्ततेरिति ।

तदेव विवृणोति -

नहीति ।

स्थूलदेहयोगव्यभिचारेऽप्यविद्यातदुत्थान्तःकरणयोगस्यासंसारमोक्षादव्यभिचारात्तदवच्छिन्नस्यैव स्वर्गादिभोगित्वान्न व्यवस्थायाः स्वरूपभेदधीरित्यर्थः ।

औपाघिकभेदेन व्यवस्थोपपत्तिं सूत्रावयवार्थं दर्शयति -

ततश्चेति ॥ ४९ ॥