ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
आभास एव च ॥ ५० ॥
आभास एव एष जीवः परस्यात्मनो जलसूर्यकादिवत्प्रतिपत्तव्यः, एव साक्षात् , नापि वस्त्वन्तरम्अतश्च यथा नैकस्मिञ्जलसूर्यके कम्पमाने जलसूर्यकान्तरं कम्पते, एवं नैकस्मिञ्जीवे कर्मफलसम्बन्धिनि जीवान्तरस्य तत्सम्बन्धःएवमप्यव्यतिकर एव कर्मफलयोःआभासस्य अविद्याकृतत्वात्तदाश्रयस्य संसारस्याविद्याकृतत्वोपपत्तिरिति, तद्व्युदासेन पारमार्थिकस्य ब्रह्मात्मभावस्योपदेशोपपत्तिःयेषां तु बहव आत्मानः, ते सर्वे सर्वगताः, तेषामेवैष व्यतिकरः प्राप्नोतिकथम् ? बहवो विभवश्चात्मानश्चैतन्यमात्रस्वरूपा निर्गुणा निरतिशयाश्चतदर्थं साधारणं प्रधानम्तन्निमित्तैषां भोगापवर्गसिद्धिरिति साङ्ख्याःसति बहुत्वे विभुत्वे घटकुड्यादिसमाना द्रव्यमात्रस्वरूपाः स्वतोऽचेतना आत्मानः, तदुपकरणानि अणूनि मनांस्यचेतनानि, तत्र आत्मद्रव्याणां मनोद्रव्याणां संयोगात् नव इच्छादयो वैशेषिका आत्मगुणा उत्पद्यन्ते, ते अव्यतिकरेण प्रत्येकमात्मसु समवयन्ति, संसारःतेषां नवानामात्मगुणानामत्यन्तानुत्पादो मोक्ष इति काणादाःतत्र साङ्ख्यानां तावच्चैतन्यस्वरूपत्वात्सर्वात्मनां सन्निधानाद्यविशेषाच्च एकस्य सुखदुःखसम्बन्धे सर्वेषां सुखदुःखसम्बन्धः प्राप्नोतिस्यादेतत्प्रधानप्रवृत्तेः पुरुषकैवल्यार्थत्वाद्व्यवस्था भविष्यतिअन्यथा हि स्वविभूतिख्यापनार्था प्रधानप्रवृत्तिः स्यात्तथा अनिर्मोक्षः प्रसज्येतेतिनैतत्सारम् हि अभिलषितसिद्धिनिबन्धना व्यवस्था शक्या विज्ञातुम्उपपत्त्या तु कयाचिद्व्यवस्थोच्येतअसत्यां पुनरुपपत्तौ कामं मा भूदभिलषितं पुरुषकैवल्यम्प्राप्नोति तु व्यवस्थाहेत्वभावाद्व्यतिकरःकाणादानामपियदा एकेनात्मना मनः संयुज्यते, तदा आत्मान्तरैरपि नान्तरीयकः संयोगः स्यात् , सन्निधानाद्यविशेषात्ततश्च हेत्वविशेषात्फलाविशेष इत्येकस्यात्मनः सुखदुःखयोगे सर्वात्मनामपि समानं सुखदुःखित्वं प्रसज्येत ॥ ५० ॥
स्यादेतत्अदृष्टनिमित्तो नियमो भविष्यतीतिनेत्याह

आद्ये सूत्रे जीवस्यांशत्वमवच्छेदबुद्धयोक्तमधुना ‘रूपं रूपम्' इत्यादिश्रुतिसिद्धं प्रतिबिम्बपक्षमुपन्यस्यति -

आभास इति ।