ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
आभास एव च ॥ ५० ॥
आभास एव एष जीवः परस्यात्मनो जलसूर्यकादिवत्प्रतिपत्तव्यः, एव साक्षात् , नापि वस्त्वन्तरम्अतश्च यथा नैकस्मिञ्जलसूर्यके कम्पमाने जलसूर्यकान्तरं कम्पते, एवं नैकस्मिञ्जीवे कर्मफलसम्बन्धिनि जीवान्तरस्य तत्सम्बन्धःएवमप्यव्यतिकर एव कर्मफलयोःआभासस्य अविद्याकृतत्वात्तदाश्रयस्य संसारस्याविद्याकृतत्वोपपत्तिरिति, तद्व्युदासेन पारमार्थिकस्य ब्रह्मात्मभावस्योपदेशोपपत्तिःयेषां तु बहव आत्मानः, ते सर्वे सर्वगताः, तेषामेवैष व्यतिकरः प्राप्नोतिकथम् ? बहवो विभवश्चात्मानश्चैतन्यमात्रस्वरूपा निर्गुणा निरतिशयाश्चतदर्थं साधारणं प्रधानम्तन्निमित्तैषां भोगापवर्गसिद्धिरिति साङ्ख्याःसति बहुत्वे विभुत्वे घटकुड्यादिसमाना द्रव्यमात्रस्वरूपाः स्वतोऽचेतना आत्मानः, तदुपकरणानि अणूनि मनांस्यचेतनानि, तत्र आत्मद्रव्याणां मनोद्रव्याणां संयोगात् नव इच्छादयो वैशेषिका आत्मगुणा उत्पद्यन्ते, ते अव्यतिकरेण प्रत्येकमात्मसु समवयन्ति, संसारःतेषां नवानामात्मगुणानामत्यन्तानुत्पादो मोक्ष इति काणादाःतत्र साङ्ख्यानां तावच्चैतन्यस्वरूपत्वात्सर्वात्मनां सन्निधानाद्यविशेषाच्च एकस्य सुखदुःखसम्बन्धे सर्वेषां सुखदुःखसम्बन्धः प्राप्नोतिस्यादेतत्प्रधानप्रवृत्तेः पुरुषकैवल्यार्थत्वाद्व्यवस्था भविष्यतिअन्यथा हि स्वविभूतिख्यापनार्था प्रधानप्रवृत्तिः स्यात्तथा अनिर्मोक्षः प्रसज्येतेतिनैतत्सारम् हि अभिलषितसिद्धिनिबन्धना व्यवस्था शक्या विज्ञातुम्उपपत्त्या तु कयाचिद्व्यवस्थोच्येतअसत्यां पुनरुपपत्तौ कामं मा भूदभिलषितं पुरुषकैवल्यम्प्राप्नोति तु व्यवस्थाहेत्वभावाद्व्यतिकरःकाणादानामपियदा एकेनात्मना मनः संयुज्यते, तदा आत्मान्तरैरपि नान्तरीयकः संयोगः स्यात् , सन्निधानाद्यविशेषात्ततश्च हेत्वविशेषात्फलाविशेष इत्येकस्यात्मनः सुखदुःखयोगे सर्वात्मनामपि समानं सुखदुःखित्वं प्रसज्येत ॥ ५० ॥

तद्व्याख्याति -

आभास एवेति ।

एवकारार्थमाह -

नेत्यादिना ।

न हि जीवः साक्षात्परमात्मैव, उपाधिव्यवधानात् । नापि वस्त्वन्तरं, ‘तत्सृष्ट्वा’ इत्यादिश्रुतिस्मृतिविरोधादित्यर्थः ।

आभासपक्षे स्वर्गीतरादिव्यवस्थापि सुस्थेत्याह -

अतश्चेति ।

अस्मिन्पक्षे बन्धोऽज्ञानाज्ज्ञानान्मुक्तिरित्येतदपि सिध्यतीत्याह -

अभासस्येति ।

स्वरूपैक्येऽपि नास्ति दुःखादिसङ्कर इत्युक्त्वा चकारसूचितं वक्तुमुपक्रमते -

येषां त्विति ।

आत्मभेदात्परमते व्यतिकरो नेति शङ्कते -

कथमिति ।

परपक्षे व्यतिकरं प्रसञ्जयितुं साङ्ख्याभिप्रायं तावदाह -

बहव इति ।

कथंं तर्हि तेषां भोगापवर्गौ, तत्राह -

तदर्थमिति ।

वैशेषिकप्रक्रियामाह -

सतीति ।

घटादिसाम्यमेव स्फोरयति -

द्रव्येति ।

मात्रचो विवक्षितं दर्शयति -

स्वत इति ।

कथं तर्हि तेषु भोगापवर्गौ, तत्राह -

तदिति ।

तथापि कथं बन्धमोक्षावित्याशङ्क्य बन्धस्वरूपमाह -

तत्रेति ।

मुक्तिस्वरूपमाह -

तेषामिति ।

स्वापादिव्यावृत्त्यर्थमत्यन्तपदम् ।

पक्षद्वयमनूद्य साङ्ख्यपक्षे व्यवस्थानुपपत्तिमाह -

तत्रेति ।

संनिधानाद्यविशेषादित्यादिशब्दादौदासीन्यमुक्तम् । साङ्ख्याभिप्रायमाशङ्कते -

स्यादिति ।

सर्वेषां पुंसां संनिधिनिर्विशेषत्वयोरविशेषेऽपि प्रधानमेव तेषां मोक्षार्थं प्रवर्तते । तथाच कञ्चित्कालं नर्तकीवत्स्वात्मानं दर्शयित्वा स्वयमेवोपरमते । सविकारप्रधानदर्शनमेव पुंसां बन्धः, तदुपरमे तद्दृष्ट्यभावान्मुक्तिरुपचर्यते । अतो नियतप्रधानप्रवृत्त्या व्यवस्थासिद्धिरित्यर्थः ।

प्रतिनियतप्रधानप्रवृत्त्यनङ्गीकारे स्वविभूतिख्यापनाय तत्प्रवृत्तिरिति पुंसां मोक्षो न स्यादित्याह -

अन्यथेति ।

प्रधानप्रवृत्तेर्मोक्षार्थत्वेऽपि सर्वेषामपर्यायमेव कस्मान्मोक्षो न भवेत् , कस्यचिन्मोक्षो बन्धश्च कस्यचिदिति व्यवस्थायां मानाभावादित्याह -

नैतदिति ।

प्रधानस्य स्वविभूतिख्यापनपरिहाराय प्रतिनियतप्रवृत्तिरित्युक्तं, तत्राह -

नहीति ।

नियमस्यानादित्वान्नात्र युक्तिरन्वेष्येत्याशङ्क्यानियमस्यैवानादित्वान्मैवमित्याह -

असत्यामिति ।

वैशेषिकसमयेऽपि व्यवस्थाऽसिद्धिमाह -

काणादानामिति ।

संनिधानादीत्यादिशब्देन द्रव्यत्वादि गृहीतम् । हेतुर्मनःसंयोगः । फलं सुखादि ॥ ५० ॥