तद्व्याख्याति -
आभास एवेति ।
एवकारार्थमाह -
नेत्यादिना ।
न हि जीवः साक्षात्परमात्मैव, उपाधिव्यवधानात् । नापि वस्त्वन्तरं, ‘तत्सृष्ट्वा’ इत्यादिश्रुतिस्मृतिविरोधादित्यर्थः ।
आभासपक्षे स्वर्गीतरादिव्यवस्थापि सुस्थेत्याह -
अतश्चेति ।
अस्मिन्पक्षे बन्धोऽज्ञानाज्ज्ञानान्मुक्तिरित्येतदपि सिध्यतीत्याह -
अभासस्येति ।
स्वरूपैक्येऽपि नास्ति दुःखादिसङ्कर इत्युक्त्वा चकारसूचितं वक्तुमुपक्रमते -
येषां त्विति ।
आत्मभेदात्परमते व्यतिकरो नेति शङ्कते -
कथमिति ।
परपक्षे व्यतिकरं प्रसञ्जयितुं साङ्ख्याभिप्रायं तावदाह -
बहव इति ।
कथंं तर्हि तेषां भोगापवर्गौ, तत्राह -
तदर्थमिति ।
वैशेषिकप्रक्रियामाह -
सतीति ।
घटादिसाम्यमेव स्फोरयति -
द्रव्येति ।
मात्रचो विवक्षितं दर्शयति -
स्वत इति ।
कथं तर्हि तेषु भोगापवर्गौ, तत्राह -
तदिति ।
तथापि कथं बन्धमोक्षावित्याशङ्क्य बन्धस्वरूपमाह -
तत्रेति ।
मुक्तिस्वरूपमाह -
तेषामिति ।
स्वापादिव्यावृत्त्यर्थमत्यन्तपदम् ।
पक्षद्वयमनूद्य साङ्ख्यपक्षे व्यवस्थानुपपत्तिमाह -
तत्रेति ।
संनिधानाद्यविशेषादित्यादिशब्दादौदासीन्यमुक्तम् । साङ्ख्याभिप्रायमाशङ्कते -
स्यादिति ।
सर्वेषां पुंसां संनिधिनिर्विशेषत्वयोरविशेषेऽपि प्रधानमेव तेषां मोक्षार्थं प्रवर्तते । तथाच कञ्चित्कालं नर्तकीवत्स्वात्मानं दर्शयित्वा स्वयमेवोपरमते । सविकारप्रधानदर्शनमेव पुंसां बन्धः, तदुपरमे तद्दृष्ट्यभावान्मुक्तिरुपचर्यते । अतो नियतप्रधानप्रवृत्त्या व्यवस्थासिद्धिरित्यर्थः ।
प्रतिनियतप्रधानप्रवृत्त्यनङ्गीकारे स्वविभूतिख्यापनाय तत्प्रवृत्तिरिति पुंसां मोक्षो न स्यादित्याह -
अन्यथेति ।
प्रधानप्रवृत्तेर्मोक्षार्थत्वेऽपि सर्वेषामपर्यायमेव कस्मान्मोक्षो न भवेत् , कस्यचिन्मोक्षो बन्धश्च कस्यचिदिति व्यवस्थायां मानाभावादित्याह -
नैतदिति ।
प्रधानस्य स्वविभूतिख्यापनपरिहाराय प्रतिनियतप्रवृत्तिरित्युक्तं, तत्राह -
नहीति ।
नियमस्यानादित्वान्नात्र युक्तिरन्वेष्येत्याशङ्क्यानियमस्यैवानादित्वान्मैवमित्याह -
असत्यामिति ।
वैशेषिकसमयेऽपि व्यवस्थाऽसिद्धिमाह -
काणादानामिति ।
संनिधानादीत्यादिशब्देन द्रव्यत्वादि गृहीतम् । हेतुर्मनःसंयोगः । फलं सुखादि ॥ ५० ॥