अनियमं व्याख्यातुं पक्षद्वयसाधारणं तज्जन्मप्रकारमाह -
बहुष्विति ।
एवमदृष्टोत्पत्तावपि तन्निमित्ता व्यवस्था किं न स्यादित्याशङ्क्य साङ्ख्यान्प्रत्याह -
साङ्ख्यानामिति ।
पक्षान्तरेऽप्यदृष्टानियमं व्याचष्टे -
काणादानामिति ।
पूर्ववदिति ।
सुखाद्युत्पादकमनःसंयोगवदित्यर्थः । यद्वा नियम्यत्वेन प्रकृतसुखादिवदित्यर्थः । एष एव दोष इत्यदृष्टस्य नियामकत्वायोगो गृह्यते ॥ ५१ ॥