ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
अदृष्टानियमात् ॥ ५१ ॥
बहुष्वात्मस्वाकाशवत्सर्वगतेषु प्रतिशरीरं बाह्याभ्यन्तराविशेषेण सन्निहितेषु मनोवाक्कायैर्धर्माधर्मलक्षणमदृष्टमुपार्ज्यतेसाङ्ख्यानां तावत् तदनात्मसमवायि प्रधानवर्तिप्रधानसाधारण्यान्न प्रत्यात्मं सुखदुःखोपभोगस्य नियामकमुपपद्यतेकाणादानामपि पूर्ववत्साधारणेनात्ममनःसंयोगेन निर्वर्तितस्यादृष्टस्यापि अस्यैवात्मन इदमदृष्टमिति नियमे हेत्वभावादेष एव दोषः ॥ ५१ ॥

अनियमं व्याख्यातुं पक्षद्वयसाधारणं तज्जन्मप्रकारमाह -

बहुष्विति ।

एवमदृष्टोत्पत्तावपि तन्निमित्ता व्यवस्था किं न स्यादित्याशङ्क्य साङ्ख्यान्प्रत्याह -

साङ्ख्यानामिति ।

पक्षान्तरेऽप्यदृष्टानियमं व्याचष्टे -

काणादानामिति ।

पूर्ववदिति ।

सुखाद्युत्पादकमनःसंयोगवदित्यर्थः । यद्वा नियम्यत्वेन प्रकृतसुखादिवदित्यर्थः । एष एव दोष इत्यदृष्टस्य नियामकत्वायोगो गृह्यते ॥ ५१ ॥