मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायः
तृतीयः पादः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
न्यायनिर्णयव्याख्या
अदृष्टानियमात् ॥ ५१ ॥
स्यादेतत् — अहमिदं फलं प्राप्नवानि, इदं परिहराणि, इत्थं प्रयतै, इत्थं करवाणि — इत्येवंविधा अभिसन्ध्यादयः प्रत्यात्मं प्रवर्तमाना अदृष्टस्यात्मनां च स्वस्वामिभावं नियंस्यन्तीति; नेत्याह —
स्यादेतदिति
;
नेत्याहेति
;
अदृष्टहेत्वसाधारण्येन तस्यापि तथात्वं शङ्कते -
स्यादेतदिति ।
सूत्रेण परिहरति -
नेत्याहेति ।