ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
अभिसन्ध्यादिष्वपि चैवम् ॥ ५२ ॥
अभिसन्ध्यादीनामपि साधारणेनैवात्ममनःसंयोगेन सर्वात्मसन्निधौ क्रियमाणानां नियमहेतुत्वानुपपत्तेरुक्तदोषानुषङ्ग एव ॥ ५२ ॥

तद्विभजते -

अभिसन्धीति ।

अदृष्टं दृष्टान्तयितुमपिशब्दः । उक्तो दोषोऽदृष्टस्य सुखादेश्चानियमः ॥ ५२ ॥