ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
प्रदेशादिति चेन्नान्तर्भावात् ॥ ५३ ॥
अथोच्येतविभुत्वेऽप्यात्मनः शरीरप्रतिष्ठेन मनसा संयोगः शरीरावच्छिन्न एव आत्मप्रदेशे भविष्यति; अतः प्रदेशकृता व्यवस्था अभिसन्ध्यादीनामदृष्टस्य सुखदुःखयोश्च भविष्यतीतितदपि नोपपद्यतेकस्मात् ? अन्तर्भावात्विभुत्वाविशेषाद्धि सर्व एवात्मानः सर्वशरीरेष्वन्तर्भवन्तितत्र वैशेषिकैः शरीरावच्छिन्नोऽप्यात्मनः प्रदेशः कल्पयितुं शक्यःकल्प्यमानोऽप्ययं निष्प्रदेशस्यात्मनः प्रदेशः काल्पनिकत्वादेव पारमार्थिकं कार्यं नियन्तुं शक्नोतिशरीरमपि सर्वात्मसन्निधावुत्पद्यमानम्अस्यैव आत्मनः, नेतरेषाम्इति नियन्तुं शक्यम्प्रदेशविशेषाभ्युपगमेऽपि द्वयोरात्मनोः समानसुखदुःखभाजोः कदाचिदेकेनैव तावच्छरीरेणोपभोगसिद्धिः स्यात् , समानप्रदेशस्यापि द्वयोरात्मनोरदृष्टस्य सम्भवात्तथा हिदेवदत्तो यस्मिन्प्रदेशे सुखदुःखमन्वभूत् , तस्मात्प्रदेशादपक्रान्ते तच्छरीरे, यज्ञदत्तशरीरे तं प्रदेशमनुप्राप्ते, तस्यापि इतरेण समानः सुखदुःखानुभवो दृश्यते स्यात् , यदि देवदत्तयज्ञदत्तयोः समानप्रदेशमदृष्टं स्यात्स्वर्गाद्यनुपभोगप्रसङ्गश्च प्रदेशवादिनः स्यात् , ब्राह्मणादिशरीरप्रदेशेष्वदृष्टनिष्पत्तेः प्रदेशान्तरवर्तित्वाच्च स्वर्गाद्युपभोगस्यसर्वगतत्वानुपपत्तिश्च बहूनामात्मनाम् , दृष्टान्ताभावात्वद तावत् त्वम्के बहवः समानप्रदेशाश्चेतिरूपादय इति चेत् , ; तेषामपि धर्म्यंशेनाभेदात् , लक्षणभेदाच्च तु बहूनामात्मनां लक्षणभेदोऽस्तिअन्त्यविशेषवशाद्भेदोपपत्तिरिति चेत् , ; भेदकल्पनाया अन्त्यविशेषकल्पनायाश्च इतरेतराश्रयत्वात्आकाशादीनामपि विभुत्वं ब्रह्मवादिनोऽसिद्धम् , कार्यत्वाभ्युपगमात्तस्मादात्मैकत्वपक्ष एव सर्वदोषाभाव इति सिद्धम्

चोद्यं विवृणोति -

अथेति ।

परिहारं विभजते -

तदपीत्यादिना ।

सर्वेषामात्मनां सर्वदेहेष्वन्तर्भावे फलितमाह -

तत्रेति ।

प्रदेशकल्पनामुपेत्यापि दूषयति -

कल्प्येति ।

कार्यमभिसन्ध्यादि ।

यस्यात्मनः शरीरं तस्यैव तत्र वृत्तिलाभो नान्येषामित्याशङ्क्याह -

शरीरमिति ।

नच पूर्वादृष्टवशाद्देहनियमस्तस्यापि नियमश्च देहसम्बन्धादित्यनादित्वाददोषोऽन्धपरम्परापातादागमानुरोधे चात्मैक्यप्रसङ्गादिति भावः ।

किञ्च प्रदेशभेदं विनापि सुखादिव्यवस्थाया दृष्टत्वान्न तस्य व्यवस्थापकतेत्याह -

प्रदेशेति ।

द्वयोरात्मनोस्तुल्यदेशमदृष्टं कथमित्याशङ्क्याह -

तथाहीति ।

किञ्च प्रदेशभेदेऽपि कर्तृत्वभोक्तृत्वयोरैकाधिकरण्यान्न तस्य व्यवस्थापकतेत्याह -

स्वर्गादीति ।

बहूनां सर्वगतत्वमुपेत्याव्यवस्थोक्ता । सम्प्रति तदपि नास्तीत्याह -

सर्वेति ।

बहूनां विभुत्वे दृष्टान्ताभावेऽपि तुल्यदेशत्वे तद्भावादात्मनां पारिशेष्याद्विभुत्वमित्याशङ्क्याह -

वदेति ।

रूपादीनां बहूनामेक एव घटो देशो दृष्टो नच मिथोविरोधो निरवयवत्वात्तथात्मनामपि निरवयवानामेकदेशतेति शङ्कते -

रूपेति ।

तेषामपि तेजोजलादिभिः स्वधर्मिभिरभेदात्तदतिरिक्तघटामावात्कुतो दृष्टान्ततेत्याह -

नेति ।

किञ्चात्मानां बहुत्वमपि लक्षणभेदादन्त्यविशैषवशाद्वा । नाद्यः, अन्यत्र लक्षणभेदात् । भेदेऽपि प्रकृते तदभावादित्याह -

लक्षणेति ।

नात्मनां तद्भेदोऽस्ति, तेषां भिन्नलक्षणानुपलम्भात् । ततश्चायुक्तं बहुत्वमित्यर्थः ।

द्वितीयं शङ्कित्वा दूषयति -

अन्त्येत्यादिना ।

नित्यद्रव्याः स्वरूपसन्तो विशेषास्तद्वशादात्मसु व्यावृत्तिरित्ययुक्तं, नहि तेषां निर्भिन्ने व्यावृत्तिधीहेतुत्वं स्वरूपादपि तत्प्रसक्तावेकाभावप्रसङ्गात् । अतो भेदे सिद्धेऽन्त्यविशेषसिद्धिस्तत्सिद्धौ च भेदसिद्धिरित्यन्योन्याश्रयान्नैकस्यापि सिद्धिरित्यर्थः ।

यत्तु बहूनामात्मनां विभुत्वासिद्धिर्दृष्टान्ताभावादिति । तन्न । आकाशादीनामेव तथात्वादित्याशङ्क्याह -

आकाशादीनामिति ।

परपक्षं निराकृत्य स्वपक्षमुपसंहरति -

तस्मादिति ।

'यो बहून्कल्पयति कल्प यत्यसावेकम् ‘ इति न्यायादेकस्तावदात्मा सर्वसंमतः, तस्मिंश्चाकाशाकल्पे परोपाधिना व्यवहारसिद्धौ न तात्त्विकभेदकल्पनायां किञ्चिन्मानं फलं वास्तीति भावः ।

तदेवं भूतभोक्तृविषयश्रुतिविरोधव्यसेधेन समन्वयः सिद्धो ब्रह्मणीति पादार्थमुपसंहरति -

इति सिद्धमिति ॥ ५३ ॥