सूत्रव्यावर्त्यमनूद्य तदुत्तरत्वेनावतार्य विभजते -
यदित्यादिना ।
काऽसौ प्रतिज्ञा, कथं वा प्राणानामुत्पत्तेर्गौणत्वे तद्धानिः, तत्राह -
कस्मिन्निति ।
कथमेतस्मादित्यादिना प्रतिज्ञा समर्थ्यते, तत्राह -
सा चेति ।
विपक्षे दोषमाह -
गौण्यां त्विति ।
प्रतिज्ञाऽपि गौणीति न तदर्थं प्राणोत्पत्तिर्मुख्या वाच्येत्याशङ्क्योपक्रमोपसंहारालोचनया विवक्षिताद्वितीयत्वानुरोधेन प्रतिज्ञाया गौणत्वायोगान्मुख्यैव प्राणोत्पत्तिरित्याह -
तथाचेति ।
प्रतिज्ञाया मुख्यत्वसिद्धये भूयःसु प्रदेशेषु दृष्टत्वं हेत्वन्तरमाह -
तथेति ।
प्राणानामुत्पत्तिश्चेत्प्रागवस्थायां सत्त्वश्रुतिर्विरुध्येतेति शङ्कते -
कथमिति ।
नैतद्वाक्यं ब्रह्मणो मूलकारणस्य प्राणसद्भावार्थं, तस्य श्रुत्या सर्वविशेषराहित्यसिद्धेरित्याह -
नैतदिति ।
किंविषयं तर्हि वाक्यं, तत्राह -
अवान्तरेति ।
हिरण्यगर्भोऽवान्तरप्रकृतिस्तत्प्राणास्तित्वविषयमेतद्वाक्यमिति योजना ।
हिरण्यगर्भस्यापि विकारत्वात्कथं विकारासत्त्वोक्तिपूर्वकं प्राणसत्त्वावधारणं, तत्राह -
स्वविकारेति ।
अवान्तरलये हिरण्यगर्भकार्यसमुदायासत्त्वापेक्षया तदीयप्राणसत्त्वावधारणमित्यर्थः । ‘एतस्माज्जायते प्राणः’ इत्यादाविन्द्रियाणां श्रुत्यैव जन्मोक्तम् । ‘तदाहुः’ इत्यादौ तु प्रागुत्पत्तेस्तेषामवस्थानं जन्माभावे लिङ्गं, तत्र लिङ्गस्य श्रुत्या बाधायामन्यतरस्यात्यन्तबाधकल्पनात् ‘वरं प्रबलानुरोधेन दुर्बलस्य विषयव्यवस्थाकल्पनम्’ इति न्यायेन वियदादिभिः सहेन्द्रियाणामुत्पत्त्याम्नानान्महाप्रलये तदुत्पत्तिरवान्तरप्रलये त्वनुत्पत्तिरिति श्रुतिलिङ्गयोर्विषयव्यवस्थेति भावः ।
ब्रह्मण एव सर्वप्रकृतित्वान्नावान्तरप्रकृतौ मानमित्याशङ्क्याह -
व्याकृतेति ।
‘हिरण्यगर्भः समवर्तताग्रे', ‘आदिकर्ता स भूतानाम्’ इत्यादिश्रुतिस्मृत्योः कार्यावच्छिन्नानामपि मूलकारणावस्थाविशेषाणां हिरण्यगर्भादीनां प्रकृतिविकारभावेन प्रसिद्धेरवान्तरप्रकृतिरस्तीत्यर्थः ।
तदेवं प्राणसत्त्वश्रुतेरवान्तरप्रलयविषयत्वान्महाप्रलयानन्तरं प्राणोत्पत्तिश्रुतेर्न गौणतेति स्वाभिप्रायेण सूत्रं व्याख्याय वियदधिकरणवदिहापि किं न व्याख्यातमित्याशङ्क्य विशेषमाह -
वियदिति ।
एकस्य सूत्रस्यैकार्थत्वयोगे किमर्थद्वयोक्त्येत्याशङ्क्याह -
तदिति ॥ २ ॥