ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
तत्पूर्वकत्वाद्वाचः ॥ ४ ॥
यद्यपि तत्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) इत्येतस्मिन्प्रकरणे प्राणानामुत्पत्तिर्न पठ्यते, तेजोबन्नानामेव त्रयाणां भूतानामुत्पत्तिश्रवणात्तथापि ब्रह्मप्रकृतिकतेजोबन्नपूर्वकत्वाभिधानाद्वाक्प्राणमनसाम् , तत्सामान्याच्च सर्वेषामेव प्राणानां ब्रह्मप्रभवत्वं सिद्धं भवतितथा हिअस्मिन्नेव प्रकरणे तेजोबन्नपूर्वकत्वं वाक्प्राणमनसामाम्नायतेअन्नमयꣳ हि सोम्य मन आपोमयः प्राणस्तेजोमयी वाक्’ (छा. उ. ६ । ५ । ४) इतितत्र यदि तावन्मुख्यमेवैषामन्नादिमयत्वम् , ततो वर्तत एव ब्रह्मप्रभवत्वम्अथ भाक्तम् , तथापि ब्रह्मकर्तृकायां नामरूपव्याक्रियायां श्रवणात् , येनाश्रुतꣳ श्रुतं भवति’ (छा. उ. ६ । १ । ३) इति चोपक्रमात् ऐतदात्म्यमिदꣳ सर्वम्’ (छा. उ. ६ । ८ । ७) इति चोपसंहारात् , श्रुत्यन्तरप्रसिद्धेश्च ब्रह्मकार्यत्वप्रपञ्चनार्थमेव मनआदीनामन्नादिमयत्ववचनमिति गम्यतेतस्मादपि प्राणानां ब्रह्मविकारत्वसिद्धिः ॥ ४ ॥

छान्दोग्ये प्राणानामुत्पत्त्यश्रवणमङ्गीकृत्यान्यत्रोत्पत्तिश्रवणादुत्पत्तिः साधिता । सम्प्रति तत्रापि तदुत्पत्त्यश्रवणमसिद्धमित्याह -

तत्पूर्वकत्वादिति ।

तच्छब्देन तेजोबन्नान्युच्यन्ते । प्राणेन मनसा च सहिताया वाचस्तेजोबन्नकार्यत्वादस्ति तदुत्पत्तिश्रुतिरित्यर्थः ।