ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
हस्तादयस्तु स्थितेऽतो नैवम् ॥ ६ ॥
हस्तादयस्त्वपरे सप्तभ्योऽतिरिक्ताः प्राणाः श्रूयन्तेहस्तौ वै ग्रहः कर्मणातिग्राहेण गृहीतो हस्ताभ्यां हि कर्म करोति’ (बृ. उ. ३ । २ । ८) इत्येवमाद्यासु श्रुतिषुस्थिते सप्तत्वातिरेके सप्तत्वमन्तर्भावाच्छक्यते सम्भावयितुम्हीनाधिकसंख्याविप्रतिपत्तौ हि अधिका संख्या सङ्ग्राह्या भवतितस्यां हीना अन्तर्भवति, तु हीनायामधिकाअतश्च नैवं मन्तव्यम्स्तोककल्पनानुरोधात्सप्तैव प्राणाः स्युरितिउत्तरसंख्यानुरोधात्तु एकादशैव ते प्राणाः स्युःतथा उदाहृता श्रुतिःदशेमे पुरुषे प्राणा आत्मैकादशः’ (बृ. उ. ३ । ९ । ४) इति; आत्मशब्देन अत्र अन्तःकरणं परिगृह्यते, करणाधिकारात्नन्वेकादशत्वादप्यधिके द्वादशत्रयोदशत्वे उदाहृतेसत्यमुदाहृते त्वेकादशभ्यः कार्यजातेभ्योऽधिकं कार्यजातमस्ति, यदर्थमधिकं करणं कल्प्येतशब्दस्पर्शरूपरसगन्धविषयाः पञ्च बुद्धिभेदाः, तदर्थानि पञ्च बुद्धीन्द्रियाणिवचनादानविहरणोत्सर्गानन्दाः पञ्च कर्मभेदाः, तदर्थानि पञ्च कर्मेन्द्रियाणिसर्वार्थविषयं त्रैकाल्यवृत्ति मनस्तु एकम् अनेकवृत्तिकम्तदेव वृत्तिभेदात् क्वचिद्भिन्नवद्व्यपदिश्यते — ‘मनो बुद्धिरहंकारश्चित्तं इतितथा श्रुतिः कामाद्या नानाविधा वृत्तीरनुक्रम्याहएतत्सर्वं मन एव’ (बृ. उ. १ । ५ । ३) इतिअपि प्तैव शीर्षण्यान्प्राणानभिमन्यमानस्य चत्वार एव प्राणा अभिमताः स्युःस्थानभेदाद्ध्येते चत्वारः सन्तः सप्त गण्यन्ते — ‘द्वे श्रोत्रे द्वे चक्षुषी द्वे नासिके एका वाक्इति तावतामेव वृत्तिभेदा इतरे प्राणा इति शक्यते वक्तुम् , हस्तादिवृत्तीनामत्यन्तविजातीयत्वात्तथानव वै पुरुषे प्राणा नाभिर्दशमीइत्यत्रापि देहच्छिद्रभेदाभिप्रायेणैव दश प्राणा उच्यन्ते, प्राणतत्त्वभेदाभिप्रायेण, ‘नाभिर्दशमीइति वचनात् हि नाभिर्नाम कश्चित्प्राणः प्रसिद्धोऽस्तिमुख्यस्य तु प्राणस्य भवति नाभिरप्येकं विशेषायतनमितिअतोनाभिर्दशमीइत्युच्यतेक्वचिदुपासनार्थं कतिचित्प्राणा गण्यन्ते, क्वचित्प्रदर्शनार्थम्तदेवं विचित्रे प्राणेयत्ताम्नाने सति, क्व किंपरम् आम्नानमिति विवेक्तव्यम्कार्यजातवशात्त्वेकादशत्वाम्नानं प्राणविषयं प्रमाणमिति स्थितम्

तत्प्रतिज्ञां विभजते -

हस्तादयस्त्विति ।

गृह्णाति पुरुषं बध्नातीति ग्रहः, तत्रेन्द्रियाणामर्थद्वारा पुरुषबन्धने हेतुत्वमित्यतिग्रहत्वमर्थानां ततोऽतिग्रहेण कर्मणा हस्तनिर्वर्त्यादानेन हस्तो गृहीतः सम्बद्धः । तदेव स्पष्टयति -

हस्ताभ्यामिति ।

सप्तत्वादतिरेकश्रुतेर्न सप्तत्वनियतिरित्यर्थः ।

सप्तत्वमपि श्रुतमेवेत्याशङ्क्य सूत्रावयवं व्याचष्टे -

स्थिते चेति ।

अन्तर्भावेन सप्तत्वं साधयति - -

हीनेति ।

अतो नेत्यादि योजयति -

अतश्चेति ।

प्राणस्तर्हि कतीत्यपेक्षायामाह -

उत्तरेति ।

तर्हि गौरवमित्याशङ्क्य प्राणानामेकादशत्वं न कल्प्यते येन लाघवमन्वेष्यमित्याह -

तथेति ।

आत्मशब्दस्य प्रतीचि रूढेर्न प्राणभेदविषयतेत्याशङ्क्याह -

आत्मेति ।

एकादशत्वस्य श्रुतत्वाद्ग्रहणे द्वादशत्वत्रयोदशत्वयोरपि तथा ग्रहः स्यादिति शङ्कते -

नन्विति ।

श्रुतीनां मिथोविरोधादर्थव्यवस्थासिद्धौ मानान्तरवशेन व्यवस्था वाच्या । तथाच कार्यलिङ्गकानुमानानुगृहीतैकादशप्राणश्रुतिरेवादरणीयेत्याह -

सत्यमिति ।

कार्यलिङ्गकमनुमानं विशदयति -

शब्देति ।

बाह्येन्द्रियाणामित्थमनुमानेऽपि कथं मनसोऽनुमानं, तत्राह -

सर्वेति ।

इन्द्रियाणां वर्तमानतत्तदेकार्थनियतत्वादतीतादिसर्वार्थज्ञानाच्च तदर्थमिन्द्रियान्तरं कल्प्यमित्यर्थः ।

सङ्कल्पादिदृष्टेस्तदर्थं करणान्तरमपि कल्प्यमित्याशङ्क्याह -

अनेकेति ।

मनसश्चेदेकत्वं तर्हि कथं भेदोक्तिः, तत्राह -

तदेवेति ।

एकस्यैव वृत्तिभेदात्किमित्यनेकधात्वं, धर्मिभेद एव कुतो न स्यादित्याशङ्क्य धर्म्यभेदश्रुतिविरोधादित्याह -

तथाचेति ।

विशेषितत्वादित्युक्तं प्रत्याह -

अपिचेति ।

कथं तर्हि सप्तत्वं, तत्राह -

स्थानेति ।

रूपादिधीरूपकार्याभेदादेकमेवेन्द्रियं स्थानभेदाद्भिन्नमिवोपचरितमित्यर्थः ।

यत्तु वृत्तिभेदापेक्षं सङ्ख्यान्तरश्रवणं, तत्राह -

न चेति ।

अन्धादेरप्यादानादिकार्यदर्शनादितरेषां चक्षुरादिवृत्तित्वे तदसम्भवादिति भावः ।

तथापि श्रुत्यन्तरेषु सत्सु कथमेकादशत्वं, तत्र दशत्वश्रुतेर्गतिमाह -

तथेति ।

स्थानभेदात्सप्त वै शीर्षण्या इति सप्तत्वोक्तिवदिति यावत् । नाभिर्दशमीत्युक्तत्वात्प्राणत्वं तस्या अपीत्याशङ्क्याह -

नहीति ।

कथं तर्हि तत्र प्राणशब्द इत्याशङ्‌क्य लक्षणयेत्याह -

मुख्यस्येति ।

सप्त प्राणाः प्रभवन्तीत्यादेर्गतिमाह -

क्वचिदिति ।

अष्टौ ग्रहा इत्यादेर्गतिं सूचयति -

क्वचिदिति ।

किं तर्हि वाक्यमुपासनादिविषयं किंवा तत्त्वविषयमित्युक्ते विचारस्य सावकाशत्वमाह -

तदेवमिति ।

कर्थ तर्हि निर्णयः, तत्राह -

कार्येति ।

एवं प्राणसङ्ख्याविषयश्रुतिविवादाभावादेकादशप्राणकारणे ब्रह्मणि समन्वयसिद्धिरित्युपसंहरति -

इति स्थितमिति ।