ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
अणवश्च ॥ ७ ॥
अधुना प्राणानामेव स्वभावान्तरमभ्युच्चिनोतिअणवश्चैते प्रकृताः प्राणाः प्रतिपत्तव्याःअणुत्वं चैषां सौक्ष्म्यपरिच्छेदौ, परमाणुतुल्यत्वम् , कृत्स्नदेहव्यापिकार्यानुपपत्तिप्रसङ्गात्सूक्ष्मा एते प्राणाः, स्थूलाश्चेत्स्युःमरणकाले शरीरान्निर्गच्छन्तः, बिलादहिरिव, उपलभ्येरन् म्रियमाणस्य पार्श्वस्थैःपरिच्छिन्नाश्चैते प्राणाः, सर्वगताश्चेत्स्युःउत्क्रान्तिगत्यागतिश्रुतिव्याकोपः स्यात् , तद्गुणसारत्वं जीवस्य सिध्येत्सर्वगतानामपि वृत्तिलाभः शरीरदेशे स्यादिति चेत् , , वृत्तिमात्रस्य करणत्वोपपत्तेःयदेव हि उपलब्धिसाधनम्वृत्तिः अन्यद्वातस्यैव नः करणत्वम् , संज्ञामात्रे विवादः इति करणानां व्यापित्वकल्पना निरर्थिकातस्मात्सूक्ष्माः परिच्छिन्नाश्च प्राणा इत्यध्यवस्यामः ॥ ७ ॥

सङ्क्षेपतोऽधिकरणतात्पर्यमाह -

अधुनेति ।

उत्पत्तिसङ्ख्याश्रुत्यविरोधोक्त्यनन्तरं परिमाणश्रुतिविरोधो निरस्यत इत्यर्थः ।

उक्तप्राणानामुत्क्रान्त्यानन्त्यश्रुतिभ्यां परिच्छिन्नत्वविभुत्वसन्देहे सिद्धान्तं तावदाह -

अणवश्चैत इति ।

अत्रोत्क्रान्त्यानन्त्यश्रुत्योरविरोधेन परिच्छिन्नप्राणकारणे ब्रह्मणि समन्वयस्थापनात्पादादिसङ्गतिः । पूर्वपक्षे दर्शितश्रुत्योर्मिथोविरोधादुक्ते ब्रह्मणि समन्वयासिद्धिः । सिद्धान्ते तदविरोधात्तत्सिद्धिः । अणुशब्दात्परमाणुपरिमाणत्वं प्राप्तं प्रत्याह -

अणुत्वं चेति ।

सौक्ष्म्यं द्रव्याणामुद्भूतरूपस्पर्शानाधारत्वम् । परिच्छेदो मध्यमपरिमाणत्वम् । परमाणुतुल्यत्वमेवाणुत्वं किं न स्यात् , तत्राह -

कृत्स्नेति ।

सौक्ष्म्यं प्रपञ्चयति -

सूक्ष्मा इति ।

परिच्छेदं साधयति -

परिच्छिन्नाश्चेति ।

विभुत्वे चेन्द्रियाणामन्तःकरणावच्छेदादणुत्वमात्मनो यदुत्क्रान्त्यधिकरणे सिद्धं तदपि न सिध्येदित्याह -

तद्गुणेति ।

प्राणाः सर्वगताः, सर्वत्र दृष्टकार्यत्वात् , आकाशवदित्यनुमानात्सर्वेऽनन्ता इत्यादिश्रुतेश्च तेषां विभुत्वाद्देह एवाभिव्यक्तेश्च सर्वत्र दृष्ट्यप्रसङ्गात्कुतोऽणुत्वमिति पूर्वपक्षमाह -

सर्वगतानामिति ।

हेतोरसिद्धेरुपासनापरत्वाच्च श्रुतेरिन्द्रियाणां विभुत्वे मानाभावाद्यद्वृत्तित्वेनेष्टं तदेवास्माकं साधकतमत्वात्करणमित्याह -

नेत्यादिना ।

तदेव स्पष्टयति -

यदेवेति ।

वृत्तिमदेव करणं न वृत्तिमात्रमित्याशङ्क्या -

अन्यद्वेति ।

वृत्तेर्वा वृत्तिमतो वा देहावच्छिन्नस्यैव वृत्तिसाधनस्य करणत्वे फलितमाह -

इतीति ।

अनर्थिकेत्युपलक्षणमप्रामाणिकी चेति वाच्यम् ।

साङ्ख्यपक्षायोगे फलितमाह -

तस्मादिति ॥ ७ ॥