ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
न वायुक्रिये पृथगुपदेशात् ॥ ९ ॥
पुनर्मुख्यः प्राणः किंस्वरूप इति इदानीं जिज्ञास्यतेतत्र प्राप्तं तावत्श्रुतेः वायुः प्राण इतिएवं हि श्रूयते — ‘यः प्राणः वायुः एष वायुः पञ्चविधः प्राणोऽपानो व्यान उदानः समानःइतिअथवा तन्त्रान्तरीयाभिप्रायात् समस्तकरणवृत्तिः प्राण इति प्राप्तम्; एवं हि तन्त्रान्तरीया आचक्षते — ‘सामान्या करणवृत्तिः प्राणाद्या वायवः पञ्चइति

अधिकरणतात्पर्यमाह -

स इति ।

मुख्यप्राणो वायुमात्रं वा करणवृत्तिर्वा तत्त्वान्तरं वेति विप्रतिपत्त्या सन्दिह्य तत्त्वान्तरत्वं निर्धार्यत इत्यर्थः । अत्र च भेदाभेदश्रुतिविरोधनिषेधेन वाय्वाद्यतिरिक्तप्राणकारणे ब्रह्मणि समन्वयसाधनात्पादादिसङ्गतिः । पूर्वपक्षे भेदाभेदश्रुत्योर्मिथो विरोधादुक्तसमन्वयासिद्धिः । सिद्धान्ते तदविरोधात्तत्सिद्धिः । यद्वा पूर्वपक्षे वायुमात्रादिन्द्रियमात्राद्वा त्वमर्थस्य विवेकः ।

सिद्धान्ते तत्त्वान्तरात्प्राणात्तद्विवेक इत्यङ्गीकृत्य पूर्वपक्षमाह -

तत्रेति ।

अभेदश्रुतिरिव भेदश्रुतिरपि स वायुनेत्याद्या प्राणस्य वायोरस्तीत्याशङ्क्योभयोर्मुख्यत्वासिद्धेस्तोककल्पनानुरोधाद्गौणी भेदश्रुतिरिति मत्वाह -

एवं हीति ।

भेदश्रुत्यवष्टम्भेऽपि ‘धर्मिभेदाद्धर्मभेदो लघीयान्’ इति न्यायेन वागादीनां सम्भूय देहचालनादिहेतुसामान्यव्यापारसम्भवान्न प्राणाख्यं पदार्थान्तरं कल्प्यं, गौरवादिन्द्रियवृत्तितया तद्भेदस्यापि वक्तुं शक्यत्वादिति पक्षान्तरमाह -

अथवेति ।

तन्त्रान्तरीयाभिप्रायं विवृणोति -

एवंं हीति ।