सूत्रान्तरव्यावर्त्यमाह -
स्यादिति ।
प्राणस्य करणत्वेऽपि कुतः सविषयत्वप्रसक्तिरित्याशङ्क्य चक्षुरादिषु तथा दृष्टत्वादित्याह -
रूपेति ।
यज्जीवस्य भोगकरणं तत्सविषयं दृष्टं, यथा चक्षुरादि तथा प्राणस्यापि विषयो वाच्यः । तदभावात्तस्य स्वतन्त्रतेत्यर्थः ।
तर्हि प्राणेऽपि कश्चिद्विषयोऽस्तु, तत्राह -
अपि चेति ।
प्राणसाध्यफलाभावादपि चक्षुरादिवत्प्राणाख्यं तत्त्वं जीवभोगोपकरणं द्वादशेऽन्द्रियवन्नोपेयमित्यर्थः ।
चोद्योत्तरं सूत्रं पातयति -
अत इति ।