ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
अकरणत्वाच्च न दोषस्तथाहि दर्शयति ॥ ११ ॥
स्यादेतत् — यदि चक्षुरादिवत् प्राणस्य जीवं प्रति करणभावोऽभ्युपगम्येत, विषयान्तरं रूपादिवत् प्रसज्येत, रूपालोचनादिभिर्वृत्तिभिर्यथास्वं चक्षुरादीनां जीवं प्रति करणभावो भवति । अपि च एकादशैव कार्यजातानि रूपालोचनादीनि परिगणितानि, यदर्थमेकादश प्राणाः सङ्गृहीताः । न तु द्वादशमपरं कार्यजातमवगम्यते, यदर्थमयं द्वादशः प्राणः प्रतिज्ञायत इति । अत उत्तरं पठति —

सूत्रान्तरव्यावर्त्यमाह -

स्यादिति ।

प्राणस्य करणत्वेऽपि कुतः सविषयत्वप्रसक्तिरित्याशङ्क्य चक्षुरादिषु तथा दृष्टत्वादित्याह -

रूपेति ।

यज्जीवस्य भोगकरणं तत्सविषयं दृष्टं, यथा चक्षुरादि तथा प्राणस्यापि विषयो वाच्यः । तदभावात्तस्य स्वतन्त्रतेत्यर्थः ।

तर्हि प्राणेऽपि कश्चिद्विषयोऽस्तु, तत्राह -

अपि चेति ।

प्राणसाध्यफलाभावादपि चक्षुरादिवत्प्राणाख्यं तत्त्वं जीवभोगोपकरणं द्वादशेऽन्द्रियवन्नोपेयमित्यर्थः ।

चोद्योत्तरं सूत्रं पातयति -

अत इति ।