ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
स्यादेतत्यदि चक्षुरादिवत् प्राणस्य जीवं प्रति करणभावोऽभ्युपगम्येत, विषयान्तरं रूपादिवत् प्रसज्येत, रूपालोचनादिभिर्वृत्तिभिर्यथास्वं चक्षुरादीनां जीवं प्रति करणभावो भवतिअपि एकादशैव कार्यजातानि रूपालोचनादीनि परिगणितानि, यदर्थमेकादश प्राणाः सङ्गृहीताः तु द्वादशमपरं कार्यजातमवगम्यते, यदर्थमयं द्वादशः प्राणः प्रतिज्ञायत इतिअत उत्तरं पठति

सूत्रान्तरव्यावर्त्यमाह -

स्यादिति ।

प्राणस्य करणत्वेऽपि कुतः सविषयत्वप्रसक्तिरित्याशङ्क्य चक्षुरादिषु तथा दृष्टत्वादित्याह -

रूपेति ।

यज्जीवस्य भोगकरणं तत्सविषयं दृष्टं, यथा चक्षुरादि तथा प्राणस्यापि विषयो वाच्यः । तदभावात्तस्य स्वतन्त्रतेत्यर्थः ।

तर्हि प्राणेऽपि कश्चिद्विषयोऽस्तु, तत्राह -

अपि चेति ।

प्राणसाध्यफलाभावादपि चक्षुरादिवत्प्राणाख्यं तत्त्वं जीवभोगोपकरणं द्वादशेऽन्द्रियवन्नोपेयमित्यर्थः ।

चोद्योत्तरं सूत्रं पातयति -

अत इति ।