मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायः
चतुर्थः पादः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
न्यायनिर्णयव्याख्या
पञ्चवृत्तिर्मनोवद्व्यपदिश्यते ॥ १२ ॥
इत
श्चास्ति
मुख्यस्य
प्राणस्य
वैशेषिकं
कार्यम्
,
यत्कारणं
पञ्चवृत्तिरयं
व्यपदिश्यते
श्रुतिषु
—
‘
प्राणोऽपानो
व्यान
उदानः
समानः
’ (बृ. उ. १ । ५ । ३)
इति
।
वृत्तिभेदश्चायं
कार्यभेदापेक्षः
—
प्राणः
प्राग्वृत्तिः
उच्छ्वासादिकर्मा
,
अपानः
अर्वाग्वृत्तिर्निश्वासादिकर्मा
,
व्यानः
तयोः
सन्धौ
वर्तमानो
वीर्यवत्कर्महेतुः
,
उदानः
ऊर्ध्ववृत्तिरुत्क्रान्त्यादिहेतुः
,
समानः
समं
सर्वेष्वङ्गेषु
योऽन्नरसान्नयति
—
इत्येवं
पञ्चवृत्तिः
प्राणः
,
मनोवत्
—
यथा
मनसः
पञ्च
वृत्तयः
,
एवं
प्राणस्यापीत्यर्थः
।
श्रोत्रादिनिमित्ताः
शब्दादिविषया
मनसः
पञ्च
वृत्तयः
प्रसिद्धाः
।
न
तु
‘
कामः
सङ्कल्पः
’
इत्याद्याः
परिपठिता
गृह्येरन्
,
पञ्चसंख्यातिरेकात्
।
नन्वत्रापि
श्रोत्रादिनिरपेक्षा
भूतभविष्यदादिविषया
अपरा
मनसो
वृत्तिरस्तीति
समानः
पञ्चसंख्यातिरेकः
;
एवं
तर्हि
‘
परमतमप्रतिषिद्धमनुमतं
भवति
’
इति
न्यायात्
इहापि
योगशास्त्रप्रसिद्धा
मनसः
पञ्च
वृत्तयः
परिगृह्यन्ते
—
‘
प्रमाणविपर्ययविकल्पनिद्रास्मृतयः
’ (पा. यो. सू. १ । १ । ६)
नाम
।
बहु
वृत्तित्वमात्रेण
वा
मनः
प्राणस्य
निदर्शनमिति
द्रष्टव्यम्
।
जी
वोपकरणत्वमपि
प्राणस्य
पञ्चवृत्तित्वात्
,
मनोवत्
—
इति
वा
योजयितव्यम्
॥ १२ ॥
पञ्चेति
;
प्राणस्य प्राणान्तरेष्वसम्भाव्यमानकार्यसत्त्वे हेत्वन्तरमाह -
पञ्चेति ।