ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
पञ्चवृत्तिर्मनोवद्व्यपदिश्यते ॥ १२ ॥
इतश्चास्ति मुख्यस्य प्राणस्य वैशेषिकं कार्यम् , यत्कारणं पञ्चवृत्तिरयं व्यपदिश्यते श्रुतिषुप्राणोऽपानो व्यान उदानः समानः’ (बृ. उ. १ । ५ । ३) इतिवृत्तिभेदश्चायं कार्यभेदापेक्षःप्राणः प्राग्वृत्तिः उच्छ्वासादिकर्मा, अपानः अर्वाग्वृत्तिर्निश्वासादिकर्मा, व्यानः तयोः सन्धौ वर्तमानो वीर्यवत्कर्महेतुः, उदानः ऊर्ध्ववृत्तिरुत्क्रान्त्यादिहेतुः, समानः समं सर्वेष्वङ्गेषु योऽन्नरसान्नयतिइत्येवं पञ्चवृत्तिः प्राणः, मनोवत्यथा मनसः पञ्च वृत्तयः, एवं प्राणस्यापीत्यर्थःश्रोत्रादिनिमित्ताः शब्दादिविषया मनसः पञ्च वृत्तयः प्रसिद्धाः तुकामः सङ्कल्पःइत्याद्याः परिपठिता गृह्येरन् , पञ्चसंख्यातिरेकात्नन्वत्रापि श्रोत्रादिनिरपेक्षा भूतभविष्यदादिविषया अपरा मनसो वृत्तिरस्तीति समानः पञ्चसंख्यातिरेकः; एवं तर्हिपरमतमप्रतिषिद्धमनुमतं भवतिइति न्यायात् इहापि योगशास्त्रप्रसिद्धा मनसः पञ्च वृत्तयः परिगृह्यन्तेप्रमाणविपर्ययविकल्पनिद्रास्मृतयः’ (पा. यो. सू. १ । १ । ६) नामबहुवृत्तित्वमात्रेण वा मनः प्राणस्य निदर्शनमिति द्रष्टव्यम्जीवोपकरणत्वमपि प्राणस्य पञ्चवृत्तित्वात् , मनोवत्इति वा योजयितव्यम् ॥ १२ ॥

सूत्रं व्याकरोति -

इतश्चेति ।

कथमेतावताऽन्यत्रासम्भाविकार्यविशेषसिद्धिः, तत्राह -

वृत्तीति ।

तदेव विवृणोति -

प्राण इति ।

उच्छ्वासादीत्यादिशब्देन देहधारणादि गृह्यते । एतेन निश्वासादीत्यादिशब्दो व्याख्यातः । उत्क्रान्त्यादीत्यादिपदेन गत्यागती गृह्येते ।

प्राणस्य पञ्चवृत्तित्वमुपसंहरति -

एवमिति ।

दृष्टान्तं व्याचष्टे -

यथेति ।

कास्ता मनसः पञ्चवृत्तयः, तत्राह -

श्रोत्रादीति ।

लोकप्रसिद्ध्यपेक्षया श्रुतिप्रसिद्धेर्बलवत्त्वात्कामाद्या मनोवृत्तयः स्युरित्याशङ्क्याह -

नत्विति ।

पञ्चसङ्ख्याधिक्याच्चेत्कामाद्या वृत्तयो नेष्यन्ते तर्हि ज्ञानेऽपि पञ्चत्वनियमासिद्धेः श्रोत्रादिनिमित्ता इत्याद्ययुक्तमिति शङ्कते -

नन्विति ।

उक्ते पञ्चवृत्तित्वे मनसोऽरुचिकारणमुक्त्वा प्रकारान्तरेण तस्य पञ्चवृत्तित्वमाह -

एवमिति ।

इहेति प्रकृतसूत्रोक्तिः ।

योगशास्त्रप्रसिद्धा मनोवृत्तीरेवानुक्रामति -

प्रमाणेति ।

प्रमासाधनं प्रमाणम् । मिथ्याध्यवसायो विपर्ययः । ‘शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः’ अग्रहणं निद्रा । अनुभूतमात्रज्ञानं स्मृतिः । परसिद्धेन परो बोधनीय इत्यस्मिन्नंशे विरोधाभावादप्रतिषिद्धत्वयुक्तं न त्विदमेवाभिप्रेतम् ।

विपर्ययादीनामविद्यावृत्तित्वोपगमादिन्द्रियव्यापारोपरममात्रत्वान्निद्राया मनोवृत्तित्वासिद्धिरित्यपरितोषात्पक्षान्तरमाह -

बह्विति ।

मनोवत्पञ्चवृत्तित्वादुपकरणत्वं प्राणस्येत्येतदपि सूत्रार्थत्वेन द्रष्टव्यमित्याह -

जीवेति ।

तदेवं वायोरिन्द्रियवृत्तेश्च प्राणस्य भेदाभेदश्रुत्योरविरोधाद्यथोक्तप्राणकारणे ब्रह्मणि समन्वयः सिध्यतीति सिद्धम् ॥ १२ ॥