सूत्रं व्याकरोति -
इतश्चेति ।
कथमेतावताऽन्यत्रासम्भाविकार्यविशेषसिद्धिः, तत्राह -
वृत्तीति ।
तदेव विवृणोति -
प्राण इति ।
उच्छ्वासादीत्यादिशब्देन देहधारणादि गृह्यते । एतेन निश्वासादीत्यादिशब्दो व्याख्यातः । उत्क्रान्त्यादीत्यादिपदेन गत्यागती गृह्येते ।
प्राणस्य पञ्चवृत्तित्वमुपसंहरति -
एवमिति ।
दृष्टान्तं व्याचष्टे -
यथेति ।
कास्ता मनसः पञ्चवृत्तयः, तत्राह -
श्रोत्रादीति ।
लोकप्रसिद्ध्यपेक्षया श्रुतिप्रसिद्धेर्बलवत्त्वात्कामाद्या मनोवृत्तयः स्युरित्याशङ्क्याह -
नत्विति ।
पञ्चसङ्ख्याधिक्याच्चेत्कामाद्या वृत्तयो नेष्यन्ते तर्हि ज्ञानेऽपि पञ्चत्वनियमासिद्धेः श्रोत्रादिनिमित्ता इत्याद्ययुक्तमिति शङ्कते -
नन्विति ।
उक्ते पञ्चवृत्तित्वे मनसोऽरुचिकारणमुक्त्वा प्रकारान्तरेण तस्य पञ्चवृत्तित्वमाह -
एवमिति ।
इहेति प्रकृतसूत्रोक्तिः ।
योगशास्त्रप्रसिद्धा मनोवृत्तीरेवानुक्रामति -
प्रमाणेति ।
प्रमासाधनं प्रमाणम् । मिथ्याध्यवसायो विपर्ययः । ‘शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः’ अग्रहणं निद्रा । अनुभूतमात्रज्ञानं स्मृतिः । परसिद्धेन परो बोधनीय इत्यस्मिन्नंशे विरोधाभावादप्रतिषिद्धत्वयुक्तं न त्विदमेवाभिप्रेतम् ।
विपर्ययादीनामविद्यावृत्तित्वोपगमादिन्द्रियव्यापारोपरममात्रत्वान्निद्राया मनोवृत्तित्वासिद्धिरित्यपरितोषात्पक्षान्तरमाह -
बह्विति ।
मनोवत्पञ्चवृत्तित्वादुपकरणत्वं प्राणस्येत्येतदपि सूत्रार्थत्वेन द्रष्टव्यमित्याह -
जीवेति ।
तदेवं वायोरिन्द्रियवृत्तेश्च प्राणस्य भेदाभेदश्रुत्योरविरोधाद्यथोक्तप्राणकारणे ब्रह्मणि समन्वयः सिध्यतीति सिद्धम् ॥ १२ ॥