मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायः
चतुर्थः पादः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
न्यायनिर्णयव्याख्या
अणुश्च ॥ १३ ॥
अणुश्चायं
मुख्यः
प्राणः
प्रत्येतव्यः
,
इतरप्राणवत्
।
अणुत्वं
च
इहापि
सौक्ष्म्यपरिच्छेदौ
,
न
परमाणुतुल्यत्वम्
,
पञ्चभिर्वृत्तिभिः
कृत्स्नशरीरव्यापित्वात्
।
सूक्ष्मः
प्राणः
,
उत्क्रान्तौ
पार्श्वस्थेन
अनुपलभ्यमानत्वात्
;
परिच्छिन्नश्च
,
उत्क्रान्तिगत्यागतिश्रुतिभ्यः
।
ननु
विभुत्वमपि
प्राणस्य
समाम्नायते
—
‘
समः
प्लुषिणा
समो
मशकेन
समो
नागेन
सम
एभिस्त्रिभिर्लोकैः
समोऽनेन
सर्वेण
’ (बृ. उ. १ । ३ । २२)
इत्येवमादिषु
प्रदेशेषु
।
तदुच्यते
—
आधिदैविकेन
समष्टिव्यष्टिरूपेण
हैरण्यगर्भेन
प्राणात्मनैव
एतद्विभुत्वमाम्नायते
,
न
आध्यात्मिकेन
।
अपि
च
‘
समः
प्लुषिणा
’
इत्यादिना
साम्यवचनेन
प्रतिप्राणिवर्तिनः
प्राणस्य
परिच्छेद
एव
प्रदर्श्यते
।
तस्माददोषः
॥ १३ ॥
अणुश्चेति
;
मुख्यस्य प्राणस्य सृष्टिं स्वभावविशेषं च निरूप्य परिमाणमतिदेशेन निरूपयति -
अणुश्चेति ।