मुख्यप्राणो महान्परिच्छिन्नो वेति श्रुतिविप्रतिपत्तेः संशये सिद्धान्तमाह -
अणुरिति ।
इहापीति सूत्रस्य मुख्यस्य प्राणस्य ।
सूक्ष्म इत्यादिना ।
अत्रापि व्यापित्वपरिच्छिन्नत्वश्रुत्योर्विरोधनिरासेन परिच्छिन्नप्राणकारणे ब्रह्मणि समन्वयसाधनात्पादादिसङ्गतिः । पूर्वपक्षे श्रुत्योर्विरोधादुक्तसमन्वयासिद्धिः । सिद्धान्ते तदविरोधात्तत्सिद्धिः ।
सर्वत्र दृष्टकार्यत्वादाकाशवत्प्राणो महानित्यत्र हेत्वसिद्धेर्यत्र शरीरं तत्रेति विशेषणे शरीरतद्रूपादिष्वनैकान्त्यादनुमानेन प्राणस्य महत्त्वासिद्धावपि समोऽनेन सर्वेणेति श्रौतलिङ्गेन तत्सिद्धिरित्यधिकाशङ्कां दर्शयन्पूर्वपक्षमाह -
नन्विति ।
प्लुषिर्मशकादपि सूक्ष्मो जन्तुः पुत्तिकेत्युच्यते । नागो हस्ती परिच्छिन्नत्वमुत्क्रान्त्यादिभिर्भाति समोऽनेनेत्यादिना विभुत्वं, ततश्च परिच्छिन्नत्वस्य मुख्यत्वे विभुत्वस्यात्यन्तबाधः स्यादपरिच्छिन्नत्वस्य मुख्यत्वे परिच्छिन्नत्वमौपाधिकं युक्तम् । यद्यपि सर्वेऽनन्ता इतिवत्प्राणानन्त्यश्रुतिरपि नेतुमुचिता तथापि विधान्तरेण तन्नयनार्थमाशङ्केत्यर्थः ।
तमुत्क्रामन्तं प्राणोऽनूत्क्रामतीति परिच्छेदेऽपि प्राणस्य लिङ्गदर्शनाद्द्वयोर्लिङ्गयोर्विरोधे सत्याध्यात्मिकाधिदैविकरूपाभ्यां व्यवस्थेति परिहरति -
तदिति ।
समष्टिव्यष्टिरूपेणानुवृत्तव्यावृत्तरूपेणेत्यर्थः ।
उभयथा लिङ्गयोर्व्यवस्थासिद्धावपीयमेव कुतो व्यवस्थेत्याशङ्क्य त्वदुक्तलिङ्गस्य प्राणमात्रपरिच्छेदासाधकत्वादाधिदैविकविषयत्वेन समोऽनेनेत्याद्यास्थेयमित्याह -
अपि चेति ।
मुख्यप्राणस्य व्यापित्वपरिच्छिन्नत्वश्रुत्योरित्थमविरोधात्परिच्छिन्नप्राणकारणे ब्रह्मणि समन्वयधीरित्युपसंहरति -
तस्मादिति ॥ १३ ॥