ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
अणुश्च ॥ १३ ॥
अणुश्चायं मुख्यः प्राणः प्रत्येतव्यः, इतरप्राणवत्अणुत्वं इहापि सौक्ष्म्यपरिच्छेदौ, परमाणुतुल्यत्वम् , पञ्चभिर्वृत्तिभिः कृत्स्नशरीरव्यापित्वात्सूक्ष्मः प्राणः, उत्क्रान्तौ पार्श्वस्थेन अनुपलभ्यमानत्वात्; परिच्छिन्नश्च, उत्क्रान्तिगत्यागतिश्रुतिभ्यःननु विभुत्वमपि प्राणस्य समाम्नायतेसमः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण’ (बृ. उ. १ । ३ । २२) इत्येवमादिषु प्रदेशेषुतदुच्यतेआधिदैविकेन समष्टिव्यष्टिरूपेण हैरण्यगर्भेन प्राणात्मनैव एतद्विभुत्वमाम्नायते, आध्यात्मिकेनअपि समः प्लुषिणाइत्यादिना साम्यवचनेन प्रतिप्राणिवर्तिनः प्राणस्य परिच्छेद एव प्रदर्श्यतेतस्माददोषः ॥ १३ ॥

मुख्यप्राणो महान्परिच्छिन्नो वेति श्रुतिविप्रतिपत्तेः संशये सिद्धान्तमाह -

अणुरिति ।

इहापीति सूत्रस्य मुख्यस्य प्राणस्य ।

सूक्ष्म इत्यादिना ।

अत्रापि व्यापित्वपरिच्छिन्नत्वश्रुत्योर्विरोधनिरासेन परिच्छिन्नप्राणकारणे ब्रह्मणि समन्वयसाधनात्पादादिसङ्गतिः । पूर्वपक्षे श्रुत्योर्विरोधादुक्तसमन्वयासिद्धिः । सिद्धान्ते तदविरोधात्तत्सिद्धिः ।

सर्वत्र दृष्टकार्यत्वादाकाशवत्प्राणो महानित्यत्र हेत्वसिद्धेर्यत्र शरीरं तत्रेति विशेषणे शरीरतद्रूपादिष्वनैकान्त्यादनुमानेन प्राणस्य महत्त्वासिद्धावपि समोऽनेन सर्वेणेति श्रौतलिङ्गेन तत्सिद्धिरित्यधिकाशङ्कां दर्शयन्पूर्वपक्षमाह -

नन्विति ।

प्लुषिर्मशकादपि सूक्ष्मो जन्तुः पुत्तिकेत्युच्यते । नागो हस्ती परिच्छिन्नत्वमुत्क्रान्त्यादिभिर्भाति समोऽनेनेत्यादिना विभुत्वं, ततश्च परिच्छिन्नत्वस्य मुख्यत्वे विभुत्वस्यात्यन्तबाधः स्यादपरिच्छिन्नत्वस्य मुख्यत्वे परिच्छिन्नत्वमौपाधिकं युक्तम् । यद्यपि सर्वेऽनन्ता इतिवत्प्राणानन्त्यश्रुतिरपि नेतुमुचिता तथापि विधान्तरेण तन्नयनार्थमाशङ्केत्यर्थः ।

तमुत्क्रामन्तं प्राणोऽनूत्क्रामतीति परिच्छेदेऽपि प्राणस्य लिङ्गदर्शनाद्द्वयोर्लिङ्गयोर्विरोधे सत्याध्यात्मिकाधिदैविकरूपाभ्यां व्यवस्थेति परिहरति -

तदिति ।

समष्टिव्यष्टिरूपेणानुवृत्तव्यावृत्तरूपेणेत्यर्थः ।

उभयथा लिङ्गयोर्व्यवस्थासिद्धावपीयमेव कुतो व्यवस्थेत्याशङ्क्य त्वदुक्तलिङ्गस्य प्राणमात्रपरिच्छेदासाधकत्वादाधिदैविकविषयत्वेन समोऽनेनेत्याद्यास्थेयमित्याह -

अपि चेति ।

मुख्यप्राणस्य व्यापित्वपरिच्छिन्नत्वश्रुत्योरित्थमविरोधात्परिच्छिन्नप्राणकारणे ब्रह्मणि समन्वयधीरित्युपसंहरति -

तस्मादिति ॥ १३ ॥