ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
ज्योतिराद्यधिष्ठानं तु तदामननात् ॥ १४ ॥
ते पुनः प्रकृताः प्राणाः किं स्वमहिम्नैव स्वस्मै स्वस्मै कार्याय प्रभवन्ति, आहोस्विद्देवताधिष्ठिताः प्रभवन्ति इति विचार्यते । तत्र प्राप्तं तावत् — यथास्वं कार्यशक्तियोगात् स्वमहिम्नैव प्राणाः प्रवर्तेरन्निति । अपि च देवताधिष्ठितानां प्राणानां प्रवृत्तावभ्युपगम्यमानायां तासामेवाधिष्ठात्रीणां देवतानां भोक्तृत्वप्रसङ्गात् शारीरस्य भोक्तृत्वं प्रलीयेत । अतः स्वमहिम्नैव एषां प्रवृत्तिरिति । एवं प्राप्ते, इदमुच्यते — ज्योतिराद्यधिष्ठानं तु — इति । तुशब्देन पूर्वपक्षो व्यावर्त्यते । ज्योतिरादिभिरग्न्याद्यभिमानिनीभिर्देवताभिरधिष्ठितं वागादिकरणजातं स्वकार्येषु प्रवर्तत इति प्रतिजानीते । हेतुं व्याचष्टे — तदामननादिति । तथा हि आमनन्ति — ‘अग्निर्वाग्भूत्वा मुखं प्राविशत्’ (ऐ. उ. १ । २ । ४) इत्यादि । अग्नेश्चायं वाग्भावो मुखप्रवेशश्च देवतात्मना अधिष्ठातृत्वमङ्गीकृत्य उच्यते । न हि देवतासम्बन्धं प्रत्याख्याय अग्नेः वाचि मुखे वा कश्चिद्विशेषसम्बन्धो दृश्यते । तथा ‘वायुः प्राणो भूत्वा नासिके प्राविशत्’ (ऐ. उ. १ । २ । ४) इत्येवमाद्यपि योजयितव्यम् । तथा अन्यत्रापि ‘वागेव ब्रह्मणश्चतुर्थः पादः सोऽग्निना ज्योतिषा भाति च तपति च’ (छा. उ. ३ । १८ । ३) इत्येवमादिना वागादीनां अग्न्यादिज्योतिष्ट्वादिवचनेन एतमेवार्थं द्रढयति । ‘स वै वाचमेव प्रथमामत्यवहत्सा यदा मृत्युमत्यमुच्यत सोऽग्निरभवत्’ (बृ. उ. १ । ३ । १२) इति च एवमादिना वागादीनामग्न्यादिभावापत्तिवचनेन एतमेवार्थं द्योतयति । सर्वत्र च अध्यात्माधिदैवतविभागेन वागाद्यग्न्याद्यनुक्रमणम् अनयैव प्रत्यासत्त्या भवति । स्मृतावपि — ‘वागध्यात्ममिति प्राहुर्ब्राह्मणास्तत्त्वदर्शिनः । वक्तव्यमधिभूतं तु वह्निस्तत्राधिदैवतम्’ इत्यादिना वागादीनामग्न्यादिदेवताधिष्ठितत्वं सप्रपञ्चं प्रदर्शितम् । यदुक्तम् — स्वकार्यशक्तियोगात्स्वमहिम्नैव प्राणाः प्रवर्तेरन्निति, तदयुक्तम् , शक्तानामपि शकटादीनामनडुदाद्यधिष्ठितानां प्रवृत्तिदर्शनात् । उभयथोपपत्तौ च आगमात् वागादीनां देवताधिष्ठितत्वमेव निश्चीयते ॥ १४ ॥

अधिकरणस्य विषयसंशयौ दर्शयति -

ते पुनरिति ।

अन्वयव्यतिरेकाभ्यामाद्यो विकल्पः, द्वितीयो देवताधिष्ठितत्वोक्तेरिति विवेक्तव्यम् । ‘चक्षुषा हि रूपाणि पश्यति’ इति । ‘आदित्यश्चक्षुर्भूत्वाक्षिणी प्राविशत्’ इत्यदिश्रुतेरविरोधद्वारा देवताधिष्ठितचक्षुरादिकारणे ब्रह्मणि समन्वयसाधनात्पादादिसङ्गतिः । पूर्वपक्षे श्रुत्योर्विरोधादुक्तसमन्वयासिद्धिः । सिद्धान्ते तदविरोधात्तत्सिद्धिः ।

केवलव्यतिरेकाभावाद्देवताया नाधिष्ठातृत्वमिति पूर्वपक्षयति -

तत्रेति ।

न च दृष्टकारणक्लृप्तावन्वयव्यतिरेकापेक्षायामपि देवतायाः श्रुतेरधिष्ठातृत्वोक्तेर्न तदपेक्षेति वाच्यं, देवतायास्तत्राधिष्ठातृत्वादृष्टेर्वागादिभावस्यैव भानात् । न च चेतनस्याचेतनभावाऽसिद्धेरधिष्ठातृत्वमेवेति युक्तम् , अचेतनस्याग्न्यादेरचेतनवागादिभावसिद्धेरिति भावः ।

इतश्च स्वमहिम्नैव प्राणानां प्रवृत्तिरित्याह -

अपिचेति ।

देवताश्चश्रुरादिजन्यकर्मतत्फलयोगिन्यश्चक्षुराद्यभिमानेन प्रवर्तकत्वाज्जीववदित्यनुमित्या तदेव स्फुटयति -

देवतेति ।

सिद्धसाध्यत्वमाशङ्क्य विरोधाभिप्रायानेकाधिष्ठिततया शरीरस्य गमनाद्यसम्भवापत्तेः शरीरस्य भोक्तृत्वं न स्यादित्याह -

शारीरस्येति ।

‘न ह वै देवान्पापं गच्छति’ इत्यादिना देवताया भोक्तृत्वं निरस्तमित्याशङ्क्य पुण्यफलमेव देवता भुञ्जते न पापफलमित्येतावन्मात्रस्य तत्रेष्टत्वान्मैवमिति मत्वोपसंहरति -

अत इति ।

पूर्वपक्षमनूद्य सिद्धान्तयति -

एवमिति ।

तत्र पूर्वपक्षनिषेधं विभजते -

तुशब्देेनेति ।

उत्तरपक्षप्रतिज्ञां प्रकटयति -

ज्योतिरादिभिरिति ।

हेतुमवतार्य विवृणोति -

हेतुं चेति ।

तद्भाव एवात्र भाति, नच तदधिष्ठातृत्वमित्याशङ्क्य चेतनानामचेतनत्वासिद्धेरधिष्ठातृत्वमेवात्रेष्टमित्याह -

अग्नेश्चेति ।

अधिष्ठानाधिष्ठेयत्वं हित्वोपादानोपादेयत्वमुपेत्याग्न्यादीनामचेतनानामेव वागादिभावेन मुखादिषु प्रवेशः स्यादित्याशङ्क्याह -

न हीति ।

वाक्चक्षुषोस्तैजसत्वेन तेजोमात्रत्वे सत्यग्न्यादित्यशब्दयोरैकार्थ्येन पौनरुक्त्याद्व्यक्तिभेदेन कारणभेदे चक्षुरादेरादित्यमण्डलादिव्यतिरिक्तस्थले कार्यानुपलब्धिप्रसङ्गाद्देवतानां चेतनानामेवाग्न्यादीनामधिष्ठातृत्वेन सम्बन्धो वागादिषु विवक्षितो न सम्बन्धान्तरं सदप्यत्राभिप्रेतमित्यर्थः ।

अग्निर्वाग्भूत्वेत्याद्युक्तमन्यत्राप्यतिदिशति -

तथेति ।

अग्न्यादीनामधिष्ठातृत्वं वागादीनामधिष्ठेयतेत्यत्रैव हेत्वन्तरमाह -

तथेति ।

तत्रैव लिङ्गान्तरमाह -

स वा इति ।

स प्राणो वाचं प्रथमामुद्गीथकर्मणि प्रधानां मृत्युमतीत्यावहत्प्रापयत् । किं प्रापितवानित्युच्यते । यदा हि मुक्ता तदा सा पूर्वमप्यग्निरेव सती मृत्युवियोगे प्रतिबन्धाभावादग्निरेवाभवदित्यर्थः ।

इतश्चाग्न्यादीनां वागादीनां चाधिष्ठानाधिष्ठेयत्वमित्याह -

सर्वत्रेति ।

उक्तेऽर्थे स्मृतिमपि संवादयति -

स्मृताविति ।

पूर्वपक्षबीजमनुभाषते -

यदिति ।

प्राणानां स्वकार्यशक्तियोगेऽपि चेतनाधिष्ठितानामेव प्रवृत्तिरित्याह -

तदिति ।

शकटादीनां बलीवर्दाद्यधिष्ठितानां प्रवृत्तिर्दृष्टा, क्षीरादीनामनधिष्ठितानामपि दध्यादिप्रवृत्तिसिद्धिः, तथाचोभयथासम्भवे कथं निर्णयः, तत्राह -

उभयथेति ॥ १४ ॥