सूत्रं व्याचष्टे -
सतीष्विति ।
शारीरेणैव ।
भोक्त्रेति शेषः । प्राणानां भोगसाधनत्वेनेति वक्तव्यम् । सम्बन्धः स्वस्वामिभावः ।
तामेव श्रुतिमाह -
तथाहीति ।
देहे प्राणप्रवेशानन्तर्यमथशब्दार्थः । यत्र गोलकगतकृष्णसारे छिद्रमाकाशमनुविषण्णमनुगतं चक्षुस्तत्र स आत्मा चक्षुषि भवश्चाक्षुषस्तस्य दर्शनाय चक्षुर्न चैतन्यायेति यावत् । अथशब्दोऽप्यर्थः । दर्शनाद्यर्थं चक्षुराद्यपेक्षायामपि जिङ्घ्राणीति सङ्कल्पं स्वत एव यो वेद स आत्मा तस्य गन्धज्ञानाय घ्नाणमिति द्वितीयवाक्यार्थः ।
विमता देवता नैतच्चक्षुरादिजन्यधर्मतत्फलयोगिन्यः, एतच्चक्षुरादिसाधनोत्थरूपादिज्ञानानाश्रयत्वात् , पुरुषान्तरवदिति मत्वा श्रुतेस्तात्पर्यमाह -
शारीरेणेति ।
इतश्चास्मिन्देहे देवतानां न भोक्तृतेत्याह -
अपिचेति ।
अनेकत्वेऽपि तासामत्र भोक्तृत्वे का क्षतिः, तत्राह -
एको हीति ।
योऽहं रूपमद्राक्षं सोऽहं शृणोमीत्येकस्यैव प्रत्यभिज्ञानं प्रतिसन्धानम् । बहूनां भोक्तृत्वे विरुद्धक्रियस्य शरीरस्योन्मथनमादिशब्दार्थः ॥ १५ ॥